________________
ते णं णरगा अंतो वहा याहिं चउरंसा जाव असुभा णरएसु वेयणा, एवं एएणं अभिलावेणं उवजुंजिऊण भाणियव्वं ठाणप्पयाणुसारेणं, जत्थ जं वाहलं जत्थ जत्तिया वा नरयावाससयसहस्सा जाव अहेसत्तमाए पुढवीए, अहेसत्तमाए मज्झिमं केवतिए कति अणुत्तरा महद महालता महाणिरया पण्णत्ता एवं पुच्छितच्वं वागरेयव्वंपि तहेव ॥ ( सू० ८१ )
'कइ णं भंते!' इत्यादि, कति भदन्त । पृथिव्यः प्रज्ञप्ताः ? इति, विशेषाभिधानार्थमेतदभिहितम् उक्तञ्च – “पुव्वभणियपि जं पुण भन्नई तत्थ कारणं अस्थि । पडिसेहो य अणुण्णा कारण ( उ ) विसेसोवलंभो वा ॥ १ ॥” भगवानाह - गौतम ! सप्त पृथिव्यः प्रज्ञप्ताः, तद्यथा–रत्नप्रभा यावत्तमस्तमप्रभा ॥ 'इमीसे ण' मित्यादि, अस्या भदन्त । रत्नप्रभायाः पृथिव्या उपरि 'कियत्' किंप्रमाणमवगाह्य—उपरितनभागात् कियद् अतिक्रम्येत्यर्थः अधस्तात् 'कियत्' किंप्रमाणं वर्जयित्वा मध्ये 'कियति' किंप्रमाणे कियन्ति नरकावासशतसहस्राणि प्रज्ञप्तानि ?, भगवानाह - गौतम । अस्या रत्नप्रभायाः पृथिव्या अशीत्युत्तरयोजनशतसहस्रबाहुल्याया उपर्येकं योजनसहस्रमवगाह्याधस्तादेकं योजनसहस्रं वर्जयित्वा ' मध्ये ' मध्यभागे 'अष्टसप्तत्युत्तरे' अष्टसप्ततिसहस्राधिके योजनशतसहस्रे 'अत्र ' एतस्मिन् रत्नप्रभापृथिवीनैरयिकाणां योग्यानि त्रिंशन्नरकावासशतसहस्राणि प्रज्ञप्तानि भवन्तीत्याख्यातं मया शेपैश्च तीर्थकृद्भिः अनेन सर्वतीर्थकृतामविसंवादिवचनता प्रवेदिता ॥ ' ते णं नरगा' इत्यादि, ते नरका 'अन्तः' मध्यभागे 'वृत्ताः' वृत्ताकाराः 'वहिः' वहिर्भागे 'चतुरस्राः' चतुरस्राकाराः, इदं च पीठोपरिवर्त्तिनं मध्यभागमधिकृत्य प्रोच्यते, सकलपीठाद्यपेक्षया तु आवलिकाप्रविष्टा वृत्तत्र्यस्रच१ पूर्वभणितमपि यत् पुनर्भण्यते तत्र कारणमस्ति । प्रतिषेधोऽनुझा कारणविशेषोपलम्भश्च ॥ १ ॥
३ प्रतिपत्तौ उद्देशः १
नरकावा
सस्थानं
सू० ८१
॥ १०२ ॥