________________
तुरस्रसंस्थाना: पुष्पावकीर्णास्तु नानासंस्थाना: प्रतिपत्तव्याः, एतच्चाप्रे स्वयमेव वक्ष्यति, "अहे खुरप्पसंठाणसंठिया" इति, 'अध:' भूमितले क्षुरप्रस्येव - प्रहरण विशेषस्य ( इव) यत् संस्थानम् - आकार विशेपस्तीक्ष्णतालक्षणस्तेन संस्थिताः क्षुरप्र संस्थानसंस्थिताः, तथाहि - तेषु नरकावासेषु भूमितले मसृणत्वाभावतः शर्करिले पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शेऽपि क्षुरप्रेणेव पादाः कृत्यन्ते, तथा "निच्चंधयारतमसा " नित्यान्धकारा: उद्योताभावतो यत्तमस्तेन - तमसा नित्यं - सर्वकालमन्धकारो येषु ते नित्यान्धकाराः, तत्रापवरकादिष्वपि तमोऽन्धकारोऽस्ति केवलं स बहिः सूर्यप्रकाशे मन्दतमो भवति नरकेषु तु तीर्थकरजन्मदीक्षादिकालव्यतिरेकेणान्यदा सर्वकालमप्युद्योतलेशस्याप्यभावतो जात्यन्धस्येव मेघच्छन्नकालार्द्धरात्र इवातीव बहलतरो भवति, तत उक्तं तमसानित्यान्धकाराः, तमञ्च तत्र सदाऽवस्थितमुद्द्द्योतकारिणामभावात्, तथा चाह - " वव गयगहचंदसूरनक्खत्त जोइसपहा" व्यपगतः - परिभ्रष्ट ग्रहचन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणमेतत्तारारूपाणां च ज्योतिष्काणां पन्था - मार्गों यत्र ते व्यपगतमहचन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, तथा "मेयवसापूयरुहिर मंस चिक्खिल्ललित्ताणुलेवणतला” इति स्वभावतः संपन्नैर्मेदोवसापूतिरुधिरमांसैर्यश्चिक्खिल :- कर्दमस्तेन लिप्तम् उपदिग्धम् अनुलेपनेन - सकूलिप्तस्य पुनः पुनरुपलेपनेन तलं - भूमिका येषां ते मेदोवशापूतिरुधिरमांस चिक्खिल्ललिप्तानुलेपनतला अत एवाशुचय:- अपवित्रा बीभत्सा दर्शनेऽयतिजुगुप्सोत्पत्तेः परमदुरभिगन्धाः - मृतगवादिकडेवरेभ्योऽप्यतीवानिष्टदुरभिगन्धाः, "काऊअगणिवन्नाभा" इति लोहे धन्यमाने यादृक् कपोतो - बहु कृष्णरूपोऽग्नेर्वर्णः, किमुक्तं भवति ? - यादृशी बहुकृष्णवर्णरूपाऽग्निज्वाला विनिर्गच्छतीति तादृशी आभा - वर्णस्वरूपं येषां ते कपोताग्निवर्णाभाः, तथा कर्कश :- अतिदुस्सहोऽसिपत्रस्येव स्पर्शो येषां ते कर्कशस्पर्शाः, अत एव 'दुरहियासा' इति दुःखेनाध्यास्यन्ते - सह्यन्ते इति दुरध्यासा अशुभा दर्शनतो नरकाः, तथा गन्ध