________________
नैरयिका: ?, सूरिराह - नैरयिका: सप्तविधाः प्रज्ञप्ताः, तद्यथा - प्रथमायां पृथिव्यां नैरयिकाः प्रथमपृथिवीनैरयिका इत्यर्थः एवं सर्वत्र भावनीयम् ॥ सम्प्रति प्रतिपृथिवि नामगोत्रं वक्तव्यं तत्र नामगोत्रयोरयं विशेष:- अनादिकालसिद्धमन्वर्थरहितं नाम सान्वर्थ तु नाम गोत्रमिति, तत्र नामगोत्रप्रतिपादनार्थमाह - 'इमा णं ( पढमा णं) भंते!" इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी 'किंनामा' किमनादिकालप्रसिद्धान्वर्थरहितनामा ? 'किंगोत्रा ?' किमन्वर्थयुक्तनामा १, भगवानाह - गौतम ! नान्ना घर्मेति प्रज्ञप्ता गोत्रेण रत्न - प्रभा, तथा चान्वर्थमुपदर्शयन्ति पूर्वसूरयः - रत्नानां प्रभा - बाहुल्यं यत्र सा रत्नप्रभा रत्नबहुलेति भावः, एवं शेषसूत्राण्यपि प्रतिष्टथिवि प्रश्ननिर्वचनरूपाणि भावनीयानि, नवरं शर्करा प्रभादीनामियमन्वर्थभावना - शर्कराणां प्रभा - बाहुल्यं यत्र सा शर्कराप्रभा, एवं वालुका प्रभा पङ्कप्रभा इत्यपि भावनीयं, तथा धूमस्येव प्रभा यस्याः सा धूमप्रभा, तथा तमसः प्रभा - बाहुल्यं यत्र सा तमः प्रभा, तमस्तमस्य - प्रकृष्टतमसः प्रभा - बाहुल्यं यत्र सा तमस्तमप्रभा अत्र केपुचित्पुस्तकेषु सङ्ग्रहणिगाथे— “घम्मा वंसा सेला अंजण रिट्ठा मघा य माघवती । सत्तण्डं पुढवीणं एए नामा उ नायव्वा ॥ १ ॥ रयणा सक्कर वालुय पंका धूमा तमा [य] तमतमाय । सत्तण्हं पुढवीणं एए गोत्ता मुणेयव्वा ॥ २ ॥ " अधुना प्रतिपृथिवि बाहुल्यमभिधित्सुराह - 'इमा णं भंते " इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी कियदुबाहुल्येन प्रज्ञप्ता ?, अत्र गोत्रेण प्रश्नो नाम्नो गोत्रं प्रधानतरं प्रधानेन च प्रश्नाद्युपपन्नमिति न्यायप्रदर्शनार्थः, उक्तभ्व - "न हीना वाक् सदा सता" मिति, भगवानाह - ' अशीत्युत्तरम्' अशीतियोजनसहस्राभ्यधिकं योजनशतसहस्रं बाहुल्येन प्रज्ञप्ता । एवं सर्वाण्यपि सूत्राणि भावनीयानि अत्र सङ्ग्रहणिगाथा - "आसीयं बत्तीसं अट्ठावीसं च होइ वीसं च । अट्ठारस सोलसगं अट्ठोउत्तरमेव हिट्टिमिया ॥ १ ॥”