________________
चरतिर्यग्योनिकपुरुषाः सख्येयगुणाः, तेभ्यस्तत्त्रियः सङ्ख्येयगुणात्रिगुणत्वात् , ताभ्यो जलचरतिर्यग्योनिकपुरुषाः सद्ध्येयगुणाः,
तेभ्यो जलचरतिर्यग्योनिकस्त्रियः सङ्ख्येयगुणात्रिगुणत्वात् , ताभ्यः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असंख्येयगुणाः, तेभ्यः स्थलालचरजलचरतिर्यग्योनिकनपुंसका यथाक्रमं सहयेयगुणाः, ततश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रिया यथोत्तरं विशेषाधिकाः, ततस्तेजःकायिकै
केन्द्रियतिर्यग्योनिकनपुंसका असहयेयगुणाः, ततः पृथिव्यम्बुवायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं विशेपाधिकाः, ततो वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः ॥ सम्प्रति कर्मभूमिजादिमनुष्यत्यादिविभागतः षष्ठमल्पबहुत्वमाह-एयासि णं भंते !' इत्यादि, सर्वस्तोका अन्तरद्वीपकमनुष्यस्त्रियोऽन्तरद्वीपकमनुष्यपुरुषश्चि, एते च द्वयेऽपि परस्परं तुल्याः, तत्रत्यत्री
पुंसानां युगलधर्मोपेतत्वात् , तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यस्त्रियो मनुष्यपुरुषाश्च सङ्ख्येयगुणाः, युक्तिरत्र प्रागेवोक्ता, स्वस्थाने / ६ तु परस्परं तुल्याः, एवं हरिवर्षरम्यकपुरुषत्रियो हैमवतहैरण्यवतमनुष्यपुरुषत्रियश्च यथोत्तरं सङ्ख्येयगुणाः, खस्थाने तु परस्परं । |तुल्याः, ततो भरतैरावतकर्मभूमकमनुष्या द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावतकर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि सङ्ख्येयगुणाः, सप्तविंशतिगुणत्वात् , स्वस्थाने तु परस्परं तुल्याः, ताभ्यः पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषा द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने परस्परं तुल्याः, तेभ्यः पूर्व विदेहापरविदेहकर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि सङ्खयेयगुणाः, सप्तविंशतिगुणत्वात् , स्वस्थाने तु परस्परं तुल्याः, तेभ्योऽन्तरद्वीपकमनुष्यनपुंसका असङ्ख्येयगुणाः, श्रेण्यसङ्ख्येयभागगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसका द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, ततो हरिवपरम्यकवर्षाकर्मभूमकमनुष्यनपुंसका द्वयेऽपि सङ्ग्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो हैमवतहैरण्यवताकर्मभूमकमनुष्यनपुंसका