________________
णीओसप्पिणीओ कालतो, खेत्ततो असंखिज्जा लोगा" एवमप्कायिकतेजः कायिकवायुकायिककायस्थितिष्वपि वक्तव्यं, वनस्पतिकायिककायस्थितौ तथा वक्तव्यं यथा सामान्यत एकेन्द्रियकायस्थितौ । द्वीन्द्रियतिर्यग्योनिकनपुंसक कायस्थितौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतः सङ्ख्येयः कालः, स च सङ्ख्येयानि वर्षसहस्राणि प्रतिपत्तव्यः । एवं त्रीन्द्रियचतुरिन्द्रियतिर्यग्योनिकनपुंसककायस्थित्योरपि वक्तव्यम् । पञ्चेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं तच निरन्तरं सप्तभवान् पूर्वकोट्यायुषो नपुंसकत्वेनानुभवतो वेदितव्यं तत उर्ध्व त्ववश्यं वेदान्तरे विलक्षणभवान्तरे वा संक्रमात् एवं जलचरस्थलचरखचरसामान्यतो मनुष्यनपुंसककायस्थितिष्वपि वेदितव्यं, कर्मभूमकमनुष्यनपुंसककायस्थितौ क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्त उत्कर्षतः पूर्वकोटीपृथक्त्वं भावना प्रागिव, धर्म्मचरणं प्रतीत्य जघन्यत एकं समयमुत्कर्षतो देशोना पूर्वकोटी, अन्त्रापि भावना पूर्ववत् । एवं भरतैरावतकर्म्मभूमकमनुष्यनपुंसककायस्थितौ पूर्वविदेहापर विदेह कर्म्मभूमकमनुष्य नपुंसककायस्थितौ च वाच्यं, सामान्यतोऽकर्म्मभूमकमनुष्यनपुंसककायस्थितिचिन्तायां जन्म प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्त, एतावत्यपि कालेऽसकृदुत्पादात्, उत्कर्षतोऽन्तर्मुहूर्त्तपृथक्त्वं, तत ऊर्द्ध तत्र तथोत्पादाभावात्, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्त तत ऊर्द्ध मरणादिभावात् उत्कर्षतो देशोना पूर्वकोटी । एवं हैमवत हैरण्यवतहरिवर्षरम्यकवर्षदेवकुरूत्तरकुर्वन्तरद्वीपकमनुष्यनपुंसककायस्थितिष्वपि वक्तव्यम् ॥ तदेवमुक्ता कायस्थितिः, साम्प्रतमन्तरमभिधित्सुरिदमाह - 'नपुंसगस्स ण' मित्यादि, नपुंसकस्य णमिति वाक्यालङ्कारे भदन्त ! अन्तरं कालतः कियच्चिरं भवति ?, नपुंसको भूत्वा नपुंसकत्वात्परिभ्रष्टः पुनः कियता कालेन नपुंसको भवतीत्यर्थः, भगवानाह - गौतम ! जघन्यतोऽन्तर्मुहूर्त्त, एतावता पुरुपादिकालेन व्यवधानात् उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, पुरुषादिकालस्यैतावत एव सम्भवात्, तथा चात्र सङ्ग्रहणिगाथा --" इत्थिनपुंसा संचि