________________
MC
जन्म प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्तम् , अकर्मभूमौ हि मनुष्या नपुंसकाः संमूछिमा एव भवन्ति, न गर्भव्युत्क्रा- ४२प्रतिपत्ती न्तिकाः, युगलधर्मिणां नपुंसकत्वाभावात् , संमूच्छिमाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्त्तायुषः, केवलं जघन्यादुत्कृष्टमन्तर्मुहूर्त बृहत्तर- नपुंसकवेमवसेयं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतो देशोना पूर्वकोटी, संहरणादूर्ध्वमामरणान्तमवस्थानसम्भवात् , उत्कर्पतो देशोनता दतद्वत्स्थिच पूर्वकोट्या गर्भान्निर्गतस्य संहरणसम्भवात् , एवं विशेषचिन्तायां हैमवतहरण्यवताकर्मभूमकमनुष्यनपुंसकस्य हरिवर्षरम्यकव-ॐ त्यन्तरादि पाकर्मभूमकमनुष्यनपुंसकस्य देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसकस्य अन्तरद्वीपकमनुष्यनपुंसकस्य च जन्म संहरणं च प्रतीत्यैव- सू० ६० मेव वक्तव्यम् ॥ सम्प्रति काय स्थितिमाह-'णपुंसगे णं भंते !' इत्यादि, नपुंसको भदन्त ! नपुंसक इत्यादि, सामान्यतस्तद्वेदापरित्यागेन कालतः कियश्चिरं भवति ?, भगवानाह-गौतम ! जघन्यत एकं समयमुत्कर्षतो वनस्पतिकालं, तत्रैकसमयता उपशमश्रेणिसमाप्तौ सत्यामवेदकवे सति उपशमश्रेणीतः प्रतिपततो नपुंसकवेदोदयसमयानन्तरं कस्यचिन्मरणात् , तथा मृतस्य चावश्यं देवोत्पादे पुंवेदोदयभावात् , वनस्पतिकाल:-आवलिकासङ्ख्येयभागगतसमयराशिप्रमाणासङ्ख्येयपुद्गलपरावर्त्तप्रमाणः । नैरयिकनपुंसककायस्थितिचिन्तायां यदेव सामान्यतो विशेपतश्च स्थितिमानं जघन्यत उत्कर्षतश्चोक्तं तदेवावसातव्यं, भवस्थितिव्यतिरेकेण तत्रान्यस्याः कायस्थितेरसम्भवात् । सामान्यतस्तिर्यग्योनिकनपुंसककायस्थितिचिन्तायां जघन्यतोऽन्तर्मुहूत्तै, तदनन्तरं मृत्वा गत्यन्तरे वेदान्तरे वा, संक्रमात् , उत्कर्पतो वनस्पतिकालः, विशेपचिन्तायामेकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितावपि जघन्यतोऽन्तर्मुहूर्त भावना प्राग्वत् , उत्कर्पतो वनस्पतिकालो यथोदितरूपः, तत्रापि विशेपचिन्तायां पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसयेयकालोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीप्रमाणः, तथा चाह-उकोसेणमसंखेनं कालं असंखेजाओ उस्सप्पि