________________
ॐॐॐॐ*
समुत्पद्यन्ते कृष्णपाक्षिकाः, तत उपपद्यन्ते माहेन्द्रकल्पात्सनत्कुमारकल्पे देवा असङ्खधेयगुणाः, एते च सर्वेऽपि सहस्रारकल्पवासिदेवादयः सनत्कुमारकल्पवासिदेवपर्यन्ताः प्रत्येकं स्वस्थाने चिन्त्यमाना घनीकृतलोकैकश्रेण्यसङ्खयेयभागगताकाशप्रदेशराशिप्रमाणा द्रटव्याः, केवलं श्रेण्यसङ्खधेयभागोऽसङ्ख्येयभेभिन्नस्तत इत्थमसङ्ख्येयगुणतयाऽल्पवहुत्वमभिधीयमानं न विरोधभाक्, सनत्कुमारकल्पदेवपुरुषेभ्य ईशानकल्पदेवपुरुषा असङ्खयेयगुणाः, अङ्गलमात्रक्षेत्रप्रदेशराशिसम्बन्धिनि द्वितीये वर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्सङ्ख्याकासु घनीकृतस्य लोकस्यैकप्रादेशिकीपु श्रेणिषु यावन्तो नभःप्रदेशास्तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् , तेभ्यः सौधर्मकल्पवासिदेवपुरुषाः सङ्ख्येयगुणाः, विमानवाहुल्यात् , तथाहि-अष्टाविंशतिः शतसहस्राणि विमानानामीशानकल्पे द्वात्रिंशच्छतसहस्राणि सौधर्मकल्पे, अपि च दक्षिणदिग्वर्ती सौधर्मकल्प ईशानकल्पश्चोत्तरदिग्वती, दक्षिणस्यां च दिशि वहवः कृष्णपाक्षिका उत्पद्यन्ते, तत ईशानकल्पवासिदेवपुरुषभ्यः सौधर्मकल्पवासिदेवपुरुषाः सङ्ख्येयगुणाः, नन्वियं युक्तिः सनत्कुमारमाहेन्द्रकल्पयोरप्युक्ता, परं तत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असङ्ख्येयगुणा उक्ता इह तु सौधर्मे कल्पे
सङ्ख्येयगुणास्तदेतत्कथम् ?, उच्यते, तथावस्तुस्वाभाव्यात्, एतच्चावसीयते प्रज्ञापनादौ सर्वत्र तथाभणनात् , तेभ्योऽपि भवनवासिPIदेवपुरुपा असहयेयगुणाः, अङ्गुलमानक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमे वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिरुप
जायते तावत्सङ्ख्याकासु धनीकृतस्य लोकस्यैकप्रादेशिकीपु श्रेणिषु यावन्तो नभःप्रदेशास्तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् , तेभ्यो व्यन्तरदेवपुरुषा असोयगुणाः, सहयेययोजनकोटीकोटीप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्येकस्मिन् प्रतरे भवन्ति तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् , तेभ्यः सङ्ख्येयगुणा ज्योतिष्कदेवपुरुषाः, षट्पञ्चाशदधिकशतद्वया
944