SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ जलप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्येकस्मिन् प्रतरे भवन्ति तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् ॥ स-१२प्रतिपत्तौ म्प्रति पश्चममल्पबहुत्वमाह-एएसिणं भंते।' इत्यादि, सर्वस्तोका अन्तरद्वीपकमनुष्यपुरुषाः, क्षेत्रस्य स्तोकत्वात् , तेभ्योऽपि पुरुषवेदिदेवकुरूत्तरकुरुमनुष्यपुरुषाः सङ्ख्ययगुणाः, क्षेत्रस्य बहुत्वात् , स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्योऽपि हरिवर्षरम्यकवर्षाक-5 नामल्पमभूमकमनुष्यपुरुषाः सङ्ख्येयगुणाः, क्षेत्रस्यातिबहुत्वात् , स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, क्षेत्रस्य समानत्वात्, तेभ्योऽपि हैमवत- बहुत्वं हैरण्यवताकर्मभूमकमनुष्यपुरुषाः सङ्घयेयगुणाः, क्षेत्रस्याल्पत्वेऽप्यल्पस्थितिकतया प्राचुर्येण लभ्यमानत्वात् , स्वस्थाने तु द्वयेऽपि पर- सू० ५६ स्परं तुल्याः, तेभ्योऽपि भरतैरावतकर्मभूमकमनुष्यपुरुषाः सङ्घयेयगुणाः, अजितखामिकाले उत्कृष्टपदे (इव) स्वभावत एव भरतैरावतेषु । [च मनुष्यपुरुषाणामतिप्राचुर्येण सम्भवात् , स्वस्थाने च द्वयेऽपि परस्परं तुल्याः, क्षेत्रस्य तुल्यत्वात् , तेभ्योऽपि पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषाः सङ्ख्येयगुणाः, क्षेत्रबाहुल्यादजितस्वामिकाले इव स्वभावत एव मनुष्यपुरुषाणां प्राचुर्येण सम्भवात् , स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्योऽनुत्तरोपपातिकदेवपुरुषा असङ्खयेयगुणाः, क्षेत्रपल्योपमासद्धयेयभागवल्काशप्रदेशप्र-5 माणत्वात् , तदनन्तरमुपरितनप्रैवेयकप्रस्तटदेवपुरुषा मध्यमवेयकप्रस्तटदेवपुरुषा अधस्तनप्रैवेयकप्रस्तटदेवपुरुषा अच्युतकल्पदेवपुरुषा आरणकल्पदेवपुरुषाः प्राणतकल्पदेवपुरुषा आनतकल्पदेवपुरुषा यथोत्तरं सङ्ख्येयगुणाः, भावना प्रागिव, तदनन्तरं सहस्रारकल्पदेवपुरुषा लान्तककल्पदेवपुरुषा ब्रह्मलोककल्पदेवपुरुषा माहेन्द्रकल्पदेवपुरुषाः सनत्कुमारकल्पदेवपुरुषा ईशानकल्पदेवपुरुषा यथोत्तरमसङ्ख्येयगुणाः, सौधर्मकल्पदेवपुरुषाः सङ्ख्येयगुणाः, सौधर्मकल्पदेवपुरुषेभ्यो भवनवासिदेवपुरुषा असङ्खयेयगुणाः, भावना ॥७३॥ सर्वत्रापि प्रागिव, तेभ्यः खचरतिर्यग्योनिकपुरुषा असलयेयगुणाः, प्रतरासद्धयेयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् ,
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy