________________
25%
ते-अनुत्तरविमानवासिदेवपुरुषापेक्षया'वृहत्तरक्षेत्रपस्योपमासम्ख्येयभागवर्तिनभःप्रदेशराशिप्रमाणा उपरितनप्रैवेयकप्रस्तटे देवपुरुषाः (संख्येयगुणा) एवमुत्तरत्रापि भावना विधेया, तेभ्यो' मध्यमवेयकप्रस्तटदेवपुरुषाः सख्येयगुणाः, तेभ्योऽप्यधस्तनप्रैवेयकप्रस्तटदेवपुरुषाः सहयगुणाः, तेभ्योऽप्यच्युतकल्पदेवपुरुषाः सख्येयगुणाः, तेभ्योऽप्यारणकल्पदेवपुरुषाः संख्येयगुणाः, यद्यप्यारणाच्युतकरूपौ समश्रेणीको समविमानसङ्ख्याको च तथाऽपि कृष्णपाक्षिकास्तथास्वाभाव्यात्प्राचुर्येण दक्षिणस्यां दिशिं समुत्पद्यन्ते । अथ्र के ते कृष्णपाक्षिकाः ?, उच्यते; इह द्वये जीवाः, तद्यथा-कृष्णपाक्षिकाः शुक्लपाक्षिकाच, तत्र येषां किश्चिदूनोऽपार्द्धपुद्गलपरावतः संसार शुक्लपाक्षिकाः, इतरे दीर्घसंसारभाजिनः कृष्णपाक्षिकाः, उक्तञ्च-"जेसिमवडो पुग्गलपरियट्टो सेसओ य संसारो । ते सुकपक्खिया खलु अहिए पुण कण्हपक्खीया ॥१॥" अत एव स्तोकाः शुक्लपाक्षिकाः, अल्पसंसाराणां स्तोकानामेव सम्भवात् , बहवः कृष्णपाक्षिकाः, दीर्घसंसाराणामनन्तानन्तानां भावात्, अर्थ- कथमेतदवसातव्यं यथा कृष्णपाक्षिकाः प्राचुर्येण दक्षिणस्यां दिशि समत्पद्यन्ते, उच्यते, तथास्वाभाव्यात, तच्च तथास्वाभाव्यमेवं पूर्वाचार्ययुक्तिभिरुपबृंहितं-कृष्णपाक्षिकाः खलु दीर्घसंसारभाजिन उच्यन्ते, दीर्घसंसारभाजिनश्च बहुपापोदयात्,. बहुपापोद्याश्च क्रूरकर्माणः, क्रूरकर्माणश्च प्रायस्तथास्वाभाव्याद् तद्भवसिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते यत उक्तम्.-"पायमिह कूरकम्मा भवसिद्धीयावि. दाहिणिल्लेसु । नेरइयतिरियमणुया सुराइठाणेसु. गच्छंति ॥ १॥" ततो दक्षिणस्यां दिशि प्राचुर्येण कृष्णपाक्षिकाणां सम्भवादुपपद्यते-अच्युतकल्पदेवपुरुषापेक्षयाऽऽर
१ येषामपार्थः पुद्गलपरावर्त' शेष एव संसाररु। ते शुकपाक्षिकाः खलु अधिके पुनः कृष्णपाक्षिकाः॥१॥२ प्राय इह क्रूरकर्माणो भवसिद्धिका अपि दाक्षि॥णात्येषु-। नैरयिकतिर्यकमनुजासुरादिस्थानेषु-गच्छन्ति ॥१॥
.