________________
-
-
यमतिदेशमाह-जंतिरिक्खजोणित्थीणमंतर'मित्यादि, यत्तिर्यग्योनिकस्त्रीणामन्तरं प्रागभिहितं तदेव तिर्यग्योनिकपुरुषाणामप्यविशेप्राषितं वक्तव्यं; तश्चैवम्-सामान्यतस्तिर्यक्पुरुषस्य जघन्यतोऽन्तरमन्तर्मुहूर्त तावत्कालस्थितिना मनुष्यादिभवेन-व्यवधानात्, उत्कर्षतों क्न
स्पतिकालोऽसङ्ख्येयपुद्गलपरावर्ताख्यः, तावता कालेनामुक्तौ सत्यां नियोगतः पुरुषत्वयोगात् , एवं विशेषचिन्तायां जलचरपुरुषस्य स्थलचरपुरुषस्य खचरपुरुषस्यापि प्रत्येक जघन्यत उत्कर्षतश्चान्तरं वक्तव्यं ॥ सम्प्रति मनुष्यपुरुषत्वविषयान्तरप्रतिपादनार्थमतिदेशमाह
-जं मणुस्सइत्थीणमंतरं तं मणुस्सपुरिसाण'मिति, यन्मनुष्यस्त्रीणामन्तरं प्रोगभिहितं तदेव मनुष्यपुरुषाणामपि वक्तव्यं, तचैवम्सामान्यतो मनुष्यपुरुषस्य जघन्यतः क्षेत्रमधिकृत्यान्तरमन्तर्मुहूर्त, तश्च प्रागिव भावनीयं, उत्कर्षतों वनस्पतिकालः, धर्मचरणमधिकृत्य
जघन्यत एकं समयं, चरणपरिणामात्परिभ्रष्टस्य समयानन्तरं भूयोऽपि कस्यचिच्चरणप्रतिपत्तिसम्भवात् , उत्कर्षतों देशोनापार्द्धपुद्गलपजारावर्त्तः, एवं भरतैरावतकर्मभूमकमनुष्यपुरुषस्य पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषस्य जन्म- प्रतीय चरणमधिकृत्य च प्रत्येक
जघन्यत उत्कर्षतश्चान्तरं वक्तव्यं । सामान्यतोऽकर्मभूमकमनुष्यपुरुषस्य जन्म प्रतीत्य जघन्यतोऽन्तरं दश वर्षसहस्राणि अन्तर्मुहूत्ती-15 भ्यधिकानि, अकर्मभूमकमनुष्यपुरुषत्वेन मृतस्य जघन्यस्थितिषु देवेषूत्पद्यते, ततोऽपि च्युत्वा कर्मभूमिषु स्त्रीत्वेन पुरुषलेन वोत्पद्य कस्याप्यकर्मभूमित्वेन भूयोऽप्युत्पादात्', देवभवाञ्च्युत्वाऽनन्तरमकर्मभूमिषु, मनुष्यत्वेन तिर्यक्सज्ञिपञ्चेन्द्रियत्वेन वा उत्पादाभावादपान्तराले कर्मभूमिकेषु मृलोत्पादाभिधानं, उत्कर्षतो वनस्पतिकालोऽन्तरं, संहरणं प्रतीय जघन्यतोऽन्तरमन्तर्मुहूर्त, अकर्मभूमेः | कर्मभूमिषु संहृत्यान्तर्मुहूर्तानन्तरं तथाविधबुद्धिपरावर्तीदिभावतो भूयस्तत्रैव नयनसम्भवात् , उत्कर्षतो वनस्पतिकाल:, एतावतः कालादूर्द्धमकर्मभूमिपूत्पत्तिवत् संहरणस्यापि नियोगतो भावात् । एवं हैमवतैरण्यवतादिष्वप्यकर्मभूमिषु जन्मतः संहरणतश्च जघन्यत