________________
3 जघन्यतोऽन्तर्मुहूर्त, तावतः कालादूर्ध्व मृखा ख्यादिभावगमनाद्, उत्कर्षतः सातिरेकं सागरोपमशतपृथक्त्वं, सामान्येन तिर्यनरामरभवेष्वेतावन्तं कालं पुरुषेष्वेव भावसम्भवात् , सातिरेकता कतिपयमनुष्यभवैर्वेदितव्या, अत ऊचे पुरुषनामकर्मोदयाभावतो नियमत एव स्यादिभावगमनात् । तिर्यग्योनिकपुरुषाणां यथा तिर्यग्योनिकस्त्रीणां तथा वक्तव्यं, तश्चैवम्-तिर्यग्योनिकपुरुषस्तिर्यग्योनिकपुरुषत्वमजहत् जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं मृत्वा गत्यन्तरे वेदान्तरे वा संक्रमात् , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्र पूर्वकोटिपृथक्त्वं सप्त भवाः पूर्वकोट्यायुषः पूर्वविदेहादौ (यतः) त्रीणि पल्योपमान्यष्टमे भवे देवकुरूत्तरकुरुषु, (यतः) विशेषचिन्तायां जलचरपुरुषो जघन्येनान्तर्मुहूर्त, तत ऊर्व मरणभावेन तिर्यग्योन्यन्तरे गत्यन्तरे वेदान्तरे वा संक्रमात् , उत्कर्षतः पूर्वकोटिपृथक्त्वं, | पूर्वकोट्यायुःसमन्वितस्य भूयो भूयस्तत्रैव व्यादिवारोत्पत्तिसम्भवात् । चतुष्पदस्थलचरपुरुषो जघन्येनान्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्यो-10 पमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि सामान्यतिर्यक्पुरुषस्येव भावनीयानि । उर:परिसर्पस्थलचरपुरुषो भुजपरिसर्पस्थलचरपु-18 रुषश्च जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: पूर्वकोटिपृथक्त्वं, तच्च जलचरपुरुषस्येव भावनीयं । खचरपुरुषो जघन्यतोऽन्तर्मुहूर्त, अन्तर्मुहूर्त्तभावना सर्वत्रापि प्रागिव, उत्कर्षतः पूर्वकोटिपृथक्त्वाभ्यधिकः पल्योपमासङ्ख्येयभागः, स च सप्त वारान् पूर्वकोटिस्थितिपूत्पद्याष्टमवारमन्तरद्वीपादिखचरपुरुषेषु पल्योपमासङ्खयेयभागस्थितिपूत्पद्यमानस्य वेदितव्यः । 'मणुस्सपुरिसाणं जहा मणुस्सित्थीण'मिति, मनुष्यपुरुषाणां यथा मनुष्यस्त्रीणां तथा वक्तव्यं, तच्चैवं-सामान्यतो मनुष्यपुरुषस्य क्षेत्रं प्रतीय जघन्यतोऽन्तर्मुहूर्त, तत ऊर्दू मृत्वा | गत्यन्तरे वेदान्तरे वा संक्रमात् , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि, तत्र सप्त भवाः पूर्वकोट्यायुषो महाविदेहेषु || | अष्टमस्तु देवकुर्वादिषु, धर्मचरणं प्रतीत्य समयमेकं, द्वितीयसमये मरणभावात् , उत्कर्पतो देशोना पूर्वकोटी, उत्कर्षतोऽपि पूर्वकोट्यायुप