________________
भ्यधिकानि, तत्र सप्त भवा महाविदेहेषु अष्टमो भवो भरतैरावतेष्वेकान्तसुषमादौ त्रिपल्योपमप्रमाण इति, 'धर्मचरणं प्रतीत्य' चारित्रासेवनमाश्रित्य जघन्येनै समयं, सर्वविरतिपरिणामस्य तदावरणकर्मक्षयोपशमवैचित्र्यतः समयमेकं सम्भवातू, तत ऊच मरणतः प्रतिपातभावात् , उत्कर्षतो देशोना पूर्वकोटी, समग्रचरणकालस्योत्कर्पतोऽप्येतावन्मानप्रमाणत्वात् । भरतैरावतकर्मभूमकमनुष्यस्त्रियाः स्त्रीत्वं क्षेत्रं प्रतीत्य' भरतायेवाश्रित्य जघन्येनान्तर्मुहूर्त तच प्राग्वद्भावनीयम् , उत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि, तानि चैवं-पूर्वविदेहमनुष्यस्त्री अपरविदेहमनुष्यस्त्री वा पूर्वकोट्यायुष्का केनापि भरतादावेकान्तसुषमादौ 'संहता, सा च यद्यपि महाविदेहक्षेत्रोत्पन्ना तथाऽपि प्रागुक्तमागधपुरुषदृष्टान्तवलेन भारत्यैरावतीया वेति व्यपदिश्यते, ततः सा भारत्यादिव्यपदेशं प्राप्ता पूर्वकोटिं जीवित्वा स्वायुःक्षयतस्तत्रैव भरतादावेकान्तसुषमाप्रारम्भे समुत्पन्ना, तत एवं देशोनपूर्वकोट्यभ्यधिकं पल्यो|पमत्रयमिति । धर्मचरणं प्रतीत्य कर्मभूमिजस्त्रिया इव भावनीयं, जघन्यत एक समयमुत्कर्पतो देशोनां पूर्वकोटी यावत्', पूर्व विदेहापरविदेहकर्मभूमिजमनुष्यस्त्रियास्तु क्षेत्रमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, तच्च सुप्रतीतं, प्राग्भावितत्वात् , उत्कर्षतः पूर्वकोटिपृथक्त्वं, तत्रैव | भूय उत्पत्त्या, धर्मचरणं प्रतीत्य समागतकर्मभूमिजस्त्रिया इव वक्तव्यं, जघन्यत एक समयमुत्कर्पतो देशोनां पूर्वकोटिं यावदिति । भावार्थः ॥ उक्ता सामान्यतो विशेषतश्च कर्मभूमिकमनुष्यत्रीवक्तव्यता, साम्प्रतमकर्मभूमकमनुष्यस्त्रीवक्तव्यतां चिकीर्षुः प्रथमत: सामा-14 न्येनाह-'अकम्मभूमिगमणुस्सित्थी णं भंते !' इत्यादि, अकर्मभूमकमनुष्यत्री, णमिति वाक्यालङ्कारे, अकर्मभूमिकमनुष्यनीति कालतः कियश्चिरं भवति ?, भगवानाह-गौतम ! 'जन्म' तत्रैव सम्भूतिलक्षणं 'प्रतीत्य' आश्रित्य जघन्येन पल्योपमं देशोनं, अष्टभागाघूनमपि देशोनं भवति ततो विशेषस्थापनायाह-पल्योपमस्यासङ्ख्येयभागोनं जघन्यतः उत्कर्षतस्त्रीणि पल्योपमानि, संहरणं प्रतीत्य