________________
}
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ५९ ॥
येभ्यो वा समुत्पद्यन्ते ततो नियमादसयवर्षायुप एव न सयवर्षायुप:, असह्येयवर्णयुपश्च मृत्वा नियमतो देवलोकेषूत्पद्यन्ते, ततो नवमोऽपि मनुष्यभवः सञ्ज्ञिपञ्चेन्द्रियतिर्यग्भवो वा निरन्तरं न लभ्यते, अत एव च पाश्चात्याः सप्त भवा निरन्तरं भवन्तः सत्येयवर्षायुप एवोपपद्यन्ते नैकोऽप्यसवेयवर्षायुः, असङ्ख्येयवर्षायुर्भवानन्तरं भूयो मनुष्यभवस्य तिर्यग्भवस्य वाऽसम्भवात्, तत्र यदा उत्कर्षतस्तिर्यक्लीवेदसहिताः पाश्चात्याः सप्तापि भवा पूर्वकोट्यायुषो लभ्यन्ते अष्टमस्तु भवो देवकुर्वादिपु तदा भवन्त्युत्कर्पतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि तिर्यक्लीत्वस्यावस्थानम् । अत्रैव विशेषचिन्तां चिकीर्षुराह - 'जलयरीए' इत्यादि, जलचर्या: स्त्रिया जलचरस्त्रीत्वेन निरन्तरं भवन्त्या जघन्यतोऽवस्थानमन्तर्मुहूर्त्तमुत्कर्पतः पूर्वकोटिपृथक्लं, सप्तपूर्वकोट्यायुर्भवानन्तरं जलचरस्त्रीणामवश्यं जलचरस्त्रीत्वच्युतिभावात्, 'चउप्पयथलयरीए जहा ओहियाए' इति, चतुष्पदस्थलचरस्त्रिया यथा औधिक्यास्तिर्यक्त्रया उक्तं तथा द्रष्टव्यं तत्रैवम् - जघन्यतोऽन्तर्मुहूर्त्त तत ऊर्ध्वं तद्भावपरित्यागसम्भवात् उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि तानि च प्रागिव भावनीयानि । उरः परिसर्पस्थलचरलिया भुजपरिसर्पस्थलचरस्त्रियाश्च यथा जलचरखियास्तथा वक्तव्यं, तञ्चैवं-जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं तच पूर्ववद्भावनीयम् । खचरत्रिया जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतः पत्योपमासयेयभागः पूर्वकोटिपृथक्त्वाभ्यधिक उत्कर्षतोऽवस्थानमिति । तदेवमुक्तं तिर्थस्त्रियाः सामान्यतो विशेषतश्च अवस्थानमानं, सम्प्रति मनुष्यस्त्रिया आह- 'मणुस्सित्थियाए' इत्यादि, मनुष्य स्त्रियाः सामान्यतो यथा औधिक्यास्तिर्यस्त्रियाः, तत्रैवं - जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि तानि च सामान्यतस्तिर्यक्त्रीवद्भावनीयानि । कर्मभूमकमनुष्य स्त्रियः क्षेत्रं प्रतीत्य सामान्यतः कर्मक्षेत्रमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्त, ततः ऊर्ध्वं तद्भावपरित्यागसम्भवात्, उत्कर्पतस्त्रीणि पस्योपमानि पूर्वकोटिपृथक्त्वा
२ प्रतिपत्ती
सामान्यविशेषत
या स्त्रीत्व
स्थितिः
सू० ४८
॥ ५९ ॥