________________
पञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीषु मध्ये देवीवेनोत्पद्यते, तत एवं चतुर्थादेशवादिमतेन पल्योपमशतं पूर्वकोटिपृथ- क्वाभ्यधिकं भवति । पञ्चमेनादेशेन जघन्यत एक समयमुत्कर्षतः पल्योपमपृथक्त्वं पूर्वकोटिपृथक्त्वाभ्यधिकं, तञ्चैवं-नारीष तिरश्चीष वा पूर्वकोट्यायुष्कासु मध्ये सप्त भवाननुभूयाष्टमभवे देवकुर्वादिषु त्रिपल्योपमस्थितिकासु स्त्रीषु मध्ये स्त्रीत्वेन समुत्पद्यते, ततो मृत्वा सौधर्मदेवलोके जघन्यस्थितिकासु देवीषु मध्ये देवीवेनोपजायते, तदनन्तरं चावश्यं वेदान्तरमधिगच्छति, ततः पञ्चमादेशवादिमतेन स्त्रीवेदस्यावस्थानं पूर्वकोटिपृथक्त्वाभ्यधिक पल्योपमपृथक्वं, ते ह्येवमाहुर्नानाभवप्रमाणद्वारे-यदि स्त्रीवेदस्योत्कृष्टमवस्थानं चिन्त्यते तत इत्थमेतावदेव लभ्यते, नाधिकमन्यथा चेति । अमीषां च पञ्चानामादेशानामन्यतमादेशसमीचीनतानिर्णयोऽतिशयज्ञानिभिः सर्वोत्कृष्टश्रुतलब्धिसंपन्नैर्वा कर्तुं शक्यते, ते च सूत्रकृत्प्रतिपत्तिकाले नासीरन्निति सूत्रकृन्न निर्णयं कृतवानिति । तदेवं सामान्यतः स्त्री स्त्रीत्वं नैरन्तर्येणामुञ्चन्ती यावन्तं कालमवतिष्ठते तावत्कालप्रमाणमुक्तम् ॥ इदानी तिर्यकत्रियास्तिर्यकत्रीत्वमजहत्याः कालमानं विचिन्तयिषुरिदमाह-'तिरिक्खजोणिइत्थिए णं भंते !, इत्यादि, तिर्यक्सी णमिति वाक्यालङ्कारे भदन्त ! तिर्यस्त्रीति कालतः कियश्चिरं भवति ?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्रान्तर्मुहूर्त कस्याश्चित्तावत्प्रमाणायुकतया तदनन्तरं मृत्वा वेदान्तराधिगमाद्विलक्षणमनुष्यभवान्तराधिगमावा, कथमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकाटीपृथक्त्वाभ्यधिकानि? इति चेदुच्यते-इह नराणां तिरश्चां चोत्कर्षतोऽष्टौ भवाः प्राप्यन्ते नाधिकाः, "नरतिरियाणं सत्तट्ठभवा" इति वचनात् , तत्र | सप्त भवाः सहयेयवर्षायुषोऽष्टमस्त्वसङ्ख्येयवर्षायुरेव, तथाहि-पर्याप्तमनुष्याः पर्याप्तसज्ञिपञ्चेन्द्रियतिर्यञ्चो वा निरन्तरं यथासयं सप्त पर्याप्तमनुष्यभवान् सप्त पर्याप्तसज्ञिपञ्चेन्द्रियतिर्यग्भवान् वाऽनुभूय यद्यष्टमे भवे भूयः पर्याप्तमनुष्याः पर्याप्तसज्ञिपञ्चेन्द्रियति
more-25%25A