________________
जापचिन्तां चिकीर्षुराह-सुगम, नवरं भरतैरावतेषु त्रीणि पल्योपमानि सुषमसुषमायां, पूर्व विदेहेषु क्षेत्रतः पूर्वकोटी, तत ऊर्ध्वं तत्र तथा
क्षेत्रस्वाभाव्यादायुषोऽसम्भवात् , अकम्मभूमिगेत्यादि, जन्म प्रतीयेति-अकर्मभूमिपूत्पत्तिमाश्रित्य जघन्यतो देशोनं पल्योपमं, तच्चाष्टभागाद्यनमपि देशोनं भवति ततो विशेषस्थापनायाह-पल्योपमस्यासङ्खयेयभागेनोनं, एतच्च हैमवतहरण्यवतक्षेत्रापेक्षया द्रष्टव्यं तत्र जघन्यतः स्थितेरेतावत्प्रमाणायाः सम्भवात् , उत्कर्षतस्त्रीणि पल्योपमानि, तानि च देवकुरूत्तरकुर्वपेक्षया, 'संहरणं पडुच्चे'त्यादि, संह-1 रणं नाम कर्मभूमिजायाः स्त्रियोऽकर्मभूमिषु नयनं 'तत्प्रतीत्य' तदाश्रित्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, इयमत्र भावना -इह कर्मभूमिकाऽप्यकर्मभूमिषु संहृता अकर्मभूमिकेति व्यवहियते, तत्क्षेत्रसम्बन्धभावात् , यथा लोके कश्चिन्मगधादिदेशात्सुराष्ट्रान् प्रति प्रस्थितो गिरिनगरेषु निवासं कल्पयितुकामः सुराष्ट्रपर्यन्तग्रामप्राप्तः सन् समुत्पद्यमानेषु तथाविधेषु प्रयोजनेषु सौराष्ट्र इति व्यवहियते, तद्वधिकृताऽपि, तत्र च संहृता सती काचिदन्तर्मुहूर्त जीवति ततोऽपि वा भूयोऽपि संहियते काचित्पूर्वकोट्यायुष्का IS यावज्जीवमपि तत्रावतिष्ठते ततो जघन्यतोऽन्तर्मुहूर्त्तमुक्तमुत्कर्षतो देशोना पूर्वकोटीति, आह-भरतैरावतान्यपि कर्मभूमौ वर्तन्ते तत्र चैकान्तसुषमादौ त्रीण्यपि पल्योपमानि स्थितिरस्या भवति संहरणं च संभवति तत्कथं देशोना पूर्वकोटी भण्यते ? इति, अत्रोच्यते, कर्मकालविवक्षयाऽभिधानात् , तस्य चैतावन्मात्रलादिति । हैमवतहैरण्यवताकर्मभूमिकमनुष्यत्रीणां जन्मतो जघन्येन देशोनं पल्योपम पल्योपमासङ्खथेयभागेन न्यूनमुत्कर्षतः परिपूर्ण पल्योपमं, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, भावना प्रागिव ।। एवं 'हरिवासरम्मए' इत्याद्यपि सूत्रत्रयं भावनीयं, नवरं हरिवर्षरम्यकयोर्जन्मतो जघन्येन द्वे पल्योपमे पल्योपमासमयेयभागन्यूने उत्कर्षतः परिपूर्णे द्वे पल्योपमे । देवकुरूत्तरकुरुषु जन्मतो जघन्येन त्रीणि पल्योपमानि पल्योपमासङ्खयेयभागहीनानि उ
AAATMAMA