________________
तथा चाह दुषमान्धकारनिमग्नजनप्रवचनप्रदीपो भगवान् जिनभद्रगणिः क्षमाश्रमणो विशेषणवत्याम-"सिझंति जत्तिया किर। इह संववहारजीवरासिमझाओ। इंति अणाइवणस्सइरासीओ तत्तिया तंमि ॥ १॥” इति कृतं प्रसङ्गेन । सम्प्रति त्रसकायस्य कायस्थितिमानमाह-तसे णं भंते'इत्यादि, तसे'ण'मिति पूर्ववत् 'त्रस इति' त्रस इत्यनेन पर्यायेण कालतः ‘कियश्चिरं' कियन्तं कालं यावद्भवति?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽसहयेयं कालम् , एनमेवासङ्ख्येयं कालक्षेत्राभ्यां निरूपयति-असंखिज्जाओ'इत्यादि, असहयेया उत्सर्पिण्यवसर्पिण्य: कालतः, क्षेत्रतोऽसहयेया लोका असहयेयेषु लोकेषु यावन्त आकाशप्रदेशास्तेषां प्रतिसमयमेकैकापहारे यावत्योऽसोया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इति भावः, इयं चैतावती कायस्थितिर्गतित्रसं तेजस्कायिक वायुकायिकं चाधिकृत्यावसेया न तु लब्धित्रसं, लब्धित्रसस्य कायस्थितेरुत्कर्षतोऽपि कतिपयवर्षाधिकसागरोपमसहस्रद्वयप्रमाणत्वात् , तथा चोक्तं प्रज्ञापनायाम-"तसकाए णं भंते! तसकायत्ति कालतो कियश्चिरं होइ ?, गोयमा! जहन्नणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमभहियाई" तथा "तेउक्काइए णं भंते! तेउक्काइएत्ति कालतो केवच्चिरं होति?, गोयमा! जहन्नणं अंतोमुहत्तं उक्कोसेणं असंखेज्जं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ असंखेजा लोगा, एवं वाउकाइयावि" इति॥सम्प्रति स्थावरत्वस्यान्तरं विचिन्तयिषुराह-थावरस्सणं भंते ! अंतर'मित्यादि सुगमं नवरमसयेया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसहयेया लोकाः, इत्येतावत्प्रमाणमन्तरं तेजस्कायिकवायुकायिकमध्यगमनेनावसातव्यम् , अन्यत्र गतावतावत्प्रमाणस्यान्तरस्यासम्भवात् ॥'तसस्स णं भंते! अंतर'मित्यादि सुगम नवरम् 'उक्कोसेणं वणस्सइकालो' इति, उत्कर्षतो वनस्पतिकालो वक्तव्यः, स चै
१ सिध्यन्ति यावन्त. किलेह सव्यवहारराशिमध्यात् । आयान्ति अनादिवनस्पतिराशेः तावन्तस्तस्मिन् ॥१॥