________________
AAAAAACARE
सर्व शरीरमादिना सह वर्त्तते तथाऽपि सादिलविशेषणान्यथाऽनुपपत्त्या विशिष्ट एव प्रमाणलक्षणोपपन्न आदिरिह लभ्यते, तत उ-|| क्तम्-उत्सेधबहुलमिति, इदमुक्तं भवति-यत्संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि च हीनं तत्सादीति, अपरे तु साचीति पठन्ति, तत्र || साचीति प्रवचनवेदिन: शाल्मलीतरुमाचक्षते, ततः साचीव यत्संस्थानं, यथा शाल्मलीतरोः स्कन्धकाण्डमर्तिपुष्टमुपरि चन तदनु| रूपा महाविशालता तद्वदस्यापि संस्थानस्याधोभागः परिपूर्णों भवति उपरितनभागस्तु नेति, तथा यत्र शिरोग्रीवं हस्तपादादिकं च : यथोक्तप्रमाणलक्षणोपेतं उरउदरादि च मण्डलं तत्कुब्जं संस्थानं, यत्र पुनरुदरादि प्रमाणलक्षणोपेतं हस्तपादादिकं च हीने तद्वामनं,
यत्र सर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुण्डम्, उक्तञ्च-समचउरंसे नग्गोहमंडले साई खुज वामणए । हुंडेवि य संठाणे भाजीवाणं छम्मणेयव्वा ॥ १॥ तुलं वित्थडबहुलं उस्सेहबहुं च मडहकोठं च । हेडिल्लकायमंडहं सव्वत्थासंठियं इंडं ॥२॥" लेश्याद द्वारे षडपि लेश्याः, शुक्कुलेश्याया अपि सम्भवात् , समुद्घाता: पंञ्च, वैक्रियसमुद्घातस्यापि सम्भवात् , सब्जिद्वारे सजिनो नो अ-I
सब्जिनः, वेदद्वारे त्रिविधवेदा अपि, स्त्रीपुरुषयोर्वेदयोरप्यमीषां भावात्, पर्याप्तिद्वारे पञ्च पर्याप्तयो, भाषामनःपर्याप्त्योरेकत्वेन विवक्षणात् , अपर्याप्तिचिन्तायां पञ्चापर्याप्तयः, दृष्टिद्वारे त्रिविधदृष्टयोऽपि, तद्यथा-मिथ्यादृष्टयः सम्यग्दृष्टयः सम्यग्मिथ्यादृष्टयश्च, दर्शनद्वारे त्रिविधदर्शना अपि, अवधिदर्शनस्यापि केषाश्चिद्भावात् , ज्ञानद्वारे त्रिज्ञानिनोऽपि, अवधिज्ञानस्यापि केषाश्चिद्भावात् , अज्ञानचिन्तायामज्ञानिनोऽपि, विभङ्गस्यापि केषाश्चित्सम्भवात् , अवधिविभङ्गने च सम्यग्मिथ्यादृष्टिभेदेन प्रतिपत्तव्यों, उक्तंञ्च-स
१ समचतुरस्रं न्यग्रोधपरिमण्डलं सादि कुजं वामनम् । हुण्डमपि च सस्थानं जीवाना षड् ज्ञातव्यानि ॥१॥ तुल्यं वहुविस्तार उत्सेधबहुलं च मडभकोष्ठं च। अधस्तनकायमडभं सर्वत्रासंस्थित हुण्डम् ॥२॥