________________
दिस्वरूपास्ते सर्वे भुजपरिसा अवसातव्याः, 'ते समासतो' इत्यादि सूत्रकदम्बकं प्राग्वद्भावनीयं, नवरमवगाहना जघन्यतोऽङ्गलास-113 येयभागप्रमाणा उत्कर्षतो धनुःपृथक्त्वं, स्थितिर्जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाचत्वारिंशद्वर्षसहस्राणि, शेषं जलचरवद्रष्टव्यम् , उपसंहारमाह-'सेत्त'मित्यादि सुगमम् ॥ खचरप्रतिपादनार्थमाह-अथ के ते संमूच्छिमखचरपञ्चेन्द्रियतिर्यग्योनिका:?, सूरिराह-संमूछिमखचरपञ्चेन्द्रियतिर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-'भेदो जहा पण्णवणाए' इति, भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स चैवम्-"चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी । से किं तं चम्मपक्खी !, २ अणेगविहा पण्णत्ता, तंजहा-बग्गुली जलोया अडिला भारुडपक्खी जीवंजीवा समुद्दवायसा कण्णत्तिया पक्खिविराली, जे यावण्णे तहप्पगारा, से तं चम्मपक्खी । से किं तं लोमपक्खी?, लोमपक्खी अणेगविहा पण्णत्ता, तंजहा-ढका कंका कुरला वायसा चक्कवागा हंसा कलहंसा पोयहंसा रायहंसा अडा सेडीवडा वेलागया कोंचा सारसा मेसरा मयूरा सेयवगा गहरा पोंडरीया कामा कामेयगा वंजुलागा तित्तिरा वट्टगा लावगा कपोया कपिंजला पारेवया चिडगा वीसा कुक्कुडा सुगा वरहिगा मयणसलागा कोकिला सण्हावरण्णगमादी, से त्तं लोमपक्खी। से किं तं समुग्गपक्खी ?, समुग्गपक्खी एगागारा पण्णत्ता, ते णं नत्थि इहं, बाहिरएसु दीवसमुद्देसु वंति, से त्तं समुग्गपक्खी । से किं तं विततपक्खी ?, विततपक्खी एगागारा पण्णत्ता, ते णं नत्थि इहं, बाहिरएसु दीवसमुद्देसु भवंति, से तं वि
ततपक्खी" इति पाठसिद्धं नवरं 'चम्मपक्खी' इत्यादि, चर्मरूपौ पक्षौ चर्मपक्षौ तौ विद्यते येषां ते चर्मपक्षिणः, लोमात्मको पक्षी 3लोमपक्षौ तौ विद्येते येषां ते लोमपक्षिणः, तथा गच्छतामपि समुद्गवत्स्थितौ पक्षौ समुद्गकपक्षी तद्वन्तः समुद्गकपक्षिणः, विततौ-नि
त्यमनाकुञ्चितौ पक्षी विततपक्षौ तद्वन्तो विततपक्षिण: 'ते समासतो' इत्यादि सूत्रकदम्बकं जलचरवद्भावनीयं, नवरमवगाहना उत्क