________________
याएँ मीसिया नीलिया चउत्थीए पंचमियाए। मीसा कण्हा तत्तो परमकण्हा ॥१॥” इन्द्रियद्वारे पञ्च इन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्रलक्षणानि । समुद्घातद्वारे चत्वारः समुद्घाताः-वेदनासमुद्घातः कपायसमुद्घातो वैक्रियसमुद्घातो मारणान्तिकसमुद्घातश्च । सञ्जिद्वारे सझिनोऽसज्ञिनश्च, तत्र ये गर्भव्युत्क्रान्तिकेभ्य उत्पन्नास्ते सचिन इति व्यपदिश्यन्ते, ये तु संमूच्र्छनजेभ्यस्तेऽसब्जिनः, ते च रत्नप्रभायामेवोत्पद्यन्ते न परतः, अनाशयाशुभक्रियाया दारुणाया अप्यनन्तरविपाकिन्या एतावन्मात्रफलत्वात् , अत एवाहुर्वृद्धा:- अस्सन्नी खलु पढम दोचं व सिरीसवा तइय पक्खी। सीहा जंति चउत्थि उरगा पुण पंचमि पुढवि ॥१॥ छट्रिं य इत्थियाओ मच्छा मणुया य सत्तम पुढवि । एसो परमोवाओ बोद्धम्मो नरयपुढवीसु ॥२॥" वेदद्वारे नपुंसकवेदाः । पर्याप्तिद्वारे पञ्च पर्याप्तयः पञ्चापर्याप्तयः । दृष्टिद्वारे विविधदृष्टयोऽपि, तद्यथा-मिथ्यादृष्टयः सम्यग्दृष्टयः सम्यग्मिथ्यादृष्टयश्च, दर्शनद्वारे त्रीणि दर्शनानि, तद्यथा-चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं च । ज्ञानद्वारे ज्ञानिनोऽपि अज्ञानिनोऽपि, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च, येऽत्राज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एष चात्र भावार्थ:-ये नारका असज्ञिनस्तेऽपर्याप्तावस्थायां व्यज्ञानिन: पर्याप्तावस्थायां तु व्यज्ञानिनः सञ्जिनस्तूभय्यामप्यवस्थायां व्यज्ञानिनः, असज्ञिभ्यो ह्युत्पद्यमानास्तथावोधमान्द्यादपर्याप्तावस्थायां नाव्यक्तमप्यवधिमाप्नुवन्तीति । योगोपयोगाहारद्वाराणि प्रतीतानि । उपपातो यथा व्युत्क्रान्तिपदे प्रज्ञापनायां तथा वक्तव्यः, पर्याप्तपञ्चेन्द्रियतिर्यग्मनुष्येभ्योऽसवातवर्षायुष्कवर्जेभ्यो वक्तव्यो,
१ असज्ञिन. खलु प्रथमा द्वितीया च सरीसृपास्तृतीयां पक्षिणः । सिंहा यान्ति चतुर्थी उरगा. पुन: पञ्चमी पृथ्वीम् ॥१॥ षष्ठी च स्त्रियः मत्स्या मनुष्याश्च || सप्तमी पृथ्वीम् । एष परम उत्पादो वोद्धव्यो नरकपृथ्वीपु ॥२॥