________________
१प्रतिपत्ती नारका सू० ३२
बीवाभि
श्रीजीवा
वत्सिद्धान्तसारो वावदूकः सिद्धान्तवाहुल्यमासनः ख्यापयन्नेवं प्रललाप-"सुत्ते सत्तिविसेसो संघयणमिहऽहिनिचयो"त्ति, इति सोऽपा
कीर्णो द्रष्टव्यः, साक्षादत्रैव सूत्रे अस्थि निचयात्मकस्य संहननस्याभिधानात्, अस्थ्यभावे संहननप्रतिषेधादिति । अपरस्त्वाह-नैरयिकामलयगि-है
णामस्थ्यभावे कथं शरीरबन्धोपपत्तिः, नैष दोषः, तथाविधपुद्गलस्कन्धवत् शरीरबन्धोपपत्तेः, अत एवाह-'जे पोग्गला अणिहा' रीयावृत्तिः
इत्यादि, ये पुद्गला: 'अनिष्टाः' मनस इच्छामतिकान्ताः, तत्र किश्चित्कमनीयमपि केपाश्चिदनिष्टं भवति तत आह-न कान्ताः अकान्ता-अकमनीयाः, अत्यन्ताशुभवर्णपितत्वात्, अत एव न प्रियाः, दर्शनापातकालेऽपि न प्रियबुद्धिमासन्युत्पादयन्तीति भावः, 'अशुभाः' अशुभरसगन्धस्पर्शासकत्वात् , 'अमनोज्ञाः' न मनःप्रहादहेतवो, विपाकतो. दुःखजनकत्वात् , अमनापा:-न जातुचिदपि भोज्यतया जन्तूनां मनांस्यानुवन्तीति भावः, ते तेपां 'सघातलेन' तथारूपशरीरपरिणतिभावेन परिणमन्ति । संस्थानद्वारे तेषां शरीराणि भवधारणीयानि उत्तरवैकुर्विकाणि च हुण्डसंस्थानानि वक्तव्यानि, तथाहि-भवधारणीयानि तेषां शरीराणि भवस्वभावत एव निर्मूलविलुप्तपक्षोत्पाटितसकलपीवादिरोमपक्षिशरीरकवदतिबीभत्सहुण्डसंस्थानोपेतानि, यान्यप्युत्तरवैक्रियाणि तानि यद्यपि शुभानि वयं विकुर्विष्याम इत्यभिसन्धिना विकुर्वितुमारभन्ते तथाऽपि तानि तेषामत्यन्ताशुभतथाविधनामकर्मोदयतोऽतीवाशुभतराण्युप-5 जायन्ते इति तान्यपि हुण्डसंस्थानानि । कषायद्वारं सझाद्वारं च प्राग्वत्, लेश्याद्वारे आद्यास्तिस्रो लेश्याः, तत्राद्ययोर्द्वयोः पृथिव्योः कापोतलेश्या, तृतीयस्यां पृथिव्यां के चिन्नरकावासेपु कापोतलेश्या शेषेषु नीललेश्या, चतुर्थी नीललेश्या, पञ्चम्यां केषुचिन्नरकावायेषु चीललेश्या, शेषेषु कृष्णलेश्या, षष्ठयां कृष्णलेश्या, सप्तम्यां परमकृष्णलेश्या, उक्तश्च व्याख्याप्रज्ञप्तौ-"काऊ य दोसु तइ
कापोती च द्वयोस्तृतीयस्यां मिश्रा नीला चतुर्यो । पञ्चम्या मिश्रा कृष्णा तत- परमकृष्णा ॥१॥
61-562-61-62-6
॥३४॥