________________
सुगम नवरं भवप्रत्ययादेव तेषां शरीरं वैक्रिय नौदारिकमिति वैक्रियतैजसकार्मणानि त्रीणि शरीराण्युक्तानि । अवगाहना तेषां द्विधाभवधारणीया उत्तरवैकुर्विकी च, तत्र यया भवो धार्यते सा भवधारणीयां, बहुलवचनात्करणेऽनीयप्रत्ययः, अपरा भवान्तरवैरिनारकप्रतिघातनार्थमुत्तरकालं या विचित्ररूपा वैक्रयिकी अवगाहना सा उत्तरवैकुर्विकी, तत्र या सा भवधारणीया सा' अघन्यतोशालासयेयभागः, स चोपपातकाले वेदितव्यः, तथाप्रयत्नभावात् , उत्कर्षतः पञ्चधनुःशतानि, इदं चोत्कर्षतः प्रमाणं सप्तमपृथिवीमधिकृत्य वेदितव्यं. प्रतिप्रथिवि तत्कर्षतः प्रमाणं सहणिटीकातो भावनीयं, तत्र सविस्तरमुक्तत्वात् , उत्तरवेकुर्विकी जघन्यतोऽजलसङ्ख्येयभागो। न लसोयभागः, तथाप्रयत्नाभावात् , उत्कर्षतो धनु:सहसमिति, इदमप्युत्कर्षपरिमाणं सप्तमनरकपृथिवीमधिकृत्य वेदितव्यं, प्रतिपृथिवि तु सङ्गहणिटीकातः परिभावनीयं, संहननद्वारे 'तेसि णं भंते!' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! पण्णां संहननानामन्यतमेनापि संहननेन तेषां शरीराण्यसंहननानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतलात्, कस्मादसंहननानि ? इति चेद् अत आह-'नेवट्ठी इत्यादि, नैव तेषां शरीराणामस्थीनि, नैव शिरा-धमनिनाड्यो, नापि स्नायूनि-शेषशिराः, अस्थिनिचयात्मकं च संहननमतोडस्थ्याद्यभावादसंहननानि शरीराणि, इयमत्र भावना-इह तत्त्ववृत्त्या संहननमस्थिनिचयामकं, यत्तु प्रागेकेन्द्रियाणां सेवार्त्तसंहननमभ्यधायि तदौदारिकशरीरसम्बन्धमात्रमपेक्ष्यौपचारिकं, देवा अपि यदन्यत्र प्रज्ञापनादौ वनसंहननिन उच्यन्ते तेऽपि गौणवृत्त्या, तथाहि-इह यादृशी मनुष्यलोके चक्रवर्त्यादेविशिष्टवर्षभनाराचसंहननिन: सकलशेषमनुष्यजनासाधारणा शक्तिः "दोसोला बत्तीसा सव्वबलेणं तु संकलनिबद्ध"मित्यादिका, ततोऽधिकतरा देवानां पर्वतोत्पाटनादिविपया शक्तिः श्रूयते न च शरीरपरिकेश इति तेऽपि वअसंहननिन इव वनसंहननिन उक्ता न पुनः परमार्थतस्ते संहननिनः, ततो नारकाणामस्थ्यभावात्संहननाभावः, एतेन योऽपरिणतभग-10