________________
०५
'से किं तमित्यादि, अथ के ते वादराप्कायिका: १, सूरिराह - बादरात्कायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा - "ओसा हिमे महिया जाव तत्थ नियमा असंखेजा” इति यावत्करणादेवं परिपूर्णपाठो द्रष्टव्यः - " करगे हरतणू सुद्धोदए सीओदए खट्टोदए खारोदए अंबिलोदए लवणोदए वरुणोदए खीरोदए खोओदए रसोदए जे यावन्ने तह पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा - पज्जत्तगा य अपनत्तगा य, तत्थ णं जे वे अपज्जत्तगा एएसिणं वण्णादेसेणं गंधादेसेणं रसाएसेणं फासाए सेणं सहस्सग्गसो विहाणाई संखिज्जाइं | जोणिप्पमुहसयसहस्साइं पज्जत्तगनिस्साए अपज्जत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखेज्जा" इति, अस्य व्याख्या - अवश्याय:त्रेहः, हिमं - स्त्यानोदकं, महिका - गर्भमासेषु सूक्ष्मवर्ष, करको - घनोपलः, हरतनुः यो भुवमुद्भिद्य गोधूमाङ्कुरतृणामादिषु बद्धो विन्दुरुपजायते, शुद्धोदकम् - अन्तरिक्षसमुद्भवं नद्यादिगतं वा, तच्च स्पर्शरसादिभेदादनेकभेदं तदेवानेकभेदत्वं दर्शयति - शीतोदकं - नदीत | डागावटवापीपुष्करिण्यादिषु शीतपरिणामम्, उष्णोदकं - स्वभावत एव कचिन्निर्झरादावुष्णपरिणामं, क्षीरोदकम् - ईषल्लवणपरिणामं यथा लाटदेशादौ केषुचिदवटेपु, खट्टोदकम् - ईषदम्लपरिणामम्, आम्लोदकम् - अतीव स्वभावत एवाम्लपरिणामं काखिकवत्, लवणोदकं लवणसमुद्रे, वारुणोदकं वारुणसमुद्रे, क्षीरोदकं क्षीरसमुद्रे, क्षोदोदकमिक्षुरससमुद्रे, रसोदकं पुष्करवरसमुद्रादिषु येऽपि | चान्ये तथाप्रकारा रसस्पर्शादिभेदाद् घृतोदकादयो बादराप्कायिकास्ते सर्वे - वादाप्कायिकतया प्रतिपत्तव्याः, 'ते समासओं' इत्यादि प्राग्वत् नवरं सङ्ख्येयानि योनिप्रमुखाणि शतसहस्राणीत्यत्रापि सप्त वेदितव्यानि । 'तेसि णं भंते ! जीवाणं कइ सरीरगा' ? इत्यादिद्वारकलापचिन्तायामपि वादरपृथिवीकायिकगमोऽनुगन्तव्यो, नवरं संस्थानद्वारे शरीरकाणि स्तिबुकसंस्थानसंस्थितानि वक्तव्यानि,