________________
प्रतिपत्ती सूक्ष्मप्रबीकायाः सू० १३
श्रीजीवा- जिज्ञासुः पृच्छति-'ते णं भंते' इत्यादि पाठसिद्धं, नवरमचक्षुर्दर्शनिवं स्पर्शनेन्द्रियापेक्षया, शेषदर्शनप्रतिषेधः सुझानः ॥ गतं दर्शन- जीवाभि द्वार, ज्ञानद्वारमाह-ते भंते जीवा' इत्यादि, अज्ञानवं मिथ्यादृष्टित्वात् , तदपि चाज्ञानवं मत्यज्ञानश्रुताज्ञानापेक्षया, तथा चाह मलयगि- -'नियमा दुअण्णाणी त्यादि पाठसिद्ध, नवरं तदपि मत्यज्ञानं श्रुताज्ञानं च शेषजीववादरादिराश्यपेक्षयाऽत्यन्तमल्पीयः प्रतिपत्तव्यं, रीयावृत्तिः । यत उक्तम्-"सर्वनिकृष्टो जीवस्य दृष्ट उपयोग. एष वीरेण । सूक्ष्मनिगोदापर्याप्तानां स च भवति विज्ञेयः ।। १॥ तस्मात्प्रभृति
P ज्ञानविवृद्धिद्देष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाग्मनोदग्भिः ॥ २॥" योगद्वारमाह-'ते णं भंते' इत्यादि र ॥१८॥
पाठसिद्धम् ॥ गतं योगद्वारमधुनोपयोगद्वारं, तत्रोपयोगो द्विविध:-साकारोऽनाकारश्च, तत्राकार:-प्रतिवस्तु प्रतिनियतो ग्रहणपरिणामः "आगारो उ विसेसो" इति वचनात् , सह आकारो यस्य येन वा स साकारो-ज्ञानपञ्चकमज्ञानत्रिकं, यथोक्ताकारविकलोऽनाकारः, स चक्षुर्दर्शनादिको दर्शनचतुष्टयासकः, उक्तं च-"ज्ञानाशाने पञ्च त्रिविकल्पे सोऽष्टधा तु साकारः । चक्षुरचक्षुरवधिकेवलद्दग्विषयस्त्वनाकारः ॥ १॥" तत्र क एषामुपयोगः' इति जिज्ञासुः पृच्छति-'ते णं भंते!' इत्यादि निगदसिद्धं, नवरं साकारोपयोगोपयुक्ता मत्यज्ञानश्रुताज्ञानोपयोगापेक्षया, अनाकारोपयोगोपयुक्ता अचक्षुर्दर्शनोपयोगापेक्षयेति ॥ साम्प्रतमाहारद्वारमाह-ते ण भंते इत्यादि, 'ते' सूक्ष्मपृथिवीकायिका: णमिति वाक्यालकारे भदन्त जीवाः किमाहारमाहारयन्ति ?, भगवानाह-गौतम 'द्रव्यतो' द्रव्यस्वरूपपर्यालोचनायामनन्तप्रादेशिकानि द्रव्याणि, अन्यथा ग्रहणासम्भवात् , न हि सङ्ख्यातप्रदेशात्मका असङ्ख्यातप्रदेशात्मका वा स्कन्धा जीवस्य ग्रहणप्रायोग्या भवन्ति, क्षेत्रतोऽसङ्ख्यातप्रदेशावगाढानि, कालतोऽन्यतरस्थितिकानि-जघन्यस्थितिकानि मध्यमस्थितिकानि उकृष्टस्थितिकानि चेति भावार्थः, स्थितिरिति चाहारयोग्यस्कन्धपरिणामत्वेऽवस्थानं प्रत्येतव्यम् , आह च मूलटीकाकारः-काल
॥ १८॥
.