________________
स्त्रियाः पुंस्यभिलाषः स्त्रीवेदः पुंसः स्त्रियामभिलापः पुंवेदः, उभयोरप्यभिलापो नपुंसकवेदः, भगवानाह - गौतम । न स्त्रीवेदका न पुरुपवेदकाः, नपुंसकवेदकाः संमूर्च्छिमत्वात्, 'नारकसंमूच्छिमा नपुंसका' इति भगवद्वचनम् ॥ पर्याप्तिद्वारमाह - " तेसि णं भंते ' इत्यादि, सुगमं, पर्याप्तिप्रतिपक्षा अपर्याप्तिस्तन्निरूपणार्थमाह- 'तेसि णं भंते!' इत्यादि पाठसिद्धं, नवरं चतस्रोऽप्यपर्याप्तयः करणापेक्षया द्रष्टव्याः, लब्ध्यपेक्षया त्वेकैव प्राणापानापर्याप्तिः, यस्मादेवमागमः - इह लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमातावेव म्रियन्ते नार्वाक्, यत आगामिभवायुर्वद्धा म्रियन्ते सर्व एव देहिनः, तजाहारशरीरेन्द्रियपर्याप्तानामेव बन्धमायातीति ॥ स प्रति दृष्टिद्वारमाह- 'ते णं भंते !" इत्यादि सुगमं, नवरं सम्यग् - अविपरीता दृष्टिः- जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्येषा ते सम्यग्दृष्टयः, मिथ्या - विपर्यस्ता दृष्टिर्येषां भक्षितहत्पूरपुरुपस्य सिते पीतप्रतिपत्तिवत् मिथ्यादृष्टयः, एकान्तमम्यग्रूपमिध्यारूपप्रतिपत्तिविकलाः सम्यग्मिथ्यादृष्टयः, निर्वचनसूत्रं - 'गोयमे' त्यादि, सुगमं, नवरं सम्यग्दृष्टित्वप्रतिषेधः सासादनसम्यक्त्वस्यापि तेषामसम्भवात्, सासादनसम्यक्त्ववतां तन्मध्ये उत्पादाभावात्, ते ह्यतिसंक्कुिष्टपरिणामाः, सास्वादनसम्यक्त्वपरिणामस्तु मनाक् शुभ इति तन्मध्ये सासादनसम्यक्त्ववतामुत्पादाभाव:, अत एव सदा संक्लिष्टपरिणामत्वात्तेषां सम्यग्मिथ्यादृष्टिवपरिणामोऽपि न भवति, नापि सम्यग्मिथ्यादृष्टिः सन् तन्मध्ये उत्पद्यते, "न सम्ममिच्छो कुणइ काल" इति वचनात् ॥ गतं दृष्टिद्वारमधुना दर्शनद्वारमाह-दर्शनं नाम सामान्यविशेषात्मके वस्तुनि सामान्यावबोधः तच्चतुर्धा, तद्यथा-चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं च तत्र सामान्यविशेपाल के वस्तुनि चक्षुषा दर्शनं - रूपसामान्यपरिच्छेदञ्चक्षुर्दर्शनम्, अचक्षुषा-चक्षुर्वर्जशे पेन्द्रिय मनोभिर्दर्शनमचक्षुर्दर्शनम्, अवधिरेव दर्शनंरूपिसामान्यग्रहणमवधिदर्शनं, केवलमेव दर्शनं सकल जगद्भाविवस्तु सामान्य परिच्छित्तिरूपं केवलदर्शनं, तत्र किमेषां दर्शनमिति