________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ १४ ॥
वैक्रियशरीरापेक्षयाऽत्यन्तशुभं स्वच्छस्फटिक शिलेव शुभ्रपुद्गलसमूहात्मकं ३, तथा तेजसां - तेजः पुद्गलानां विकारस्तैजसं 'विकार' इत्यंण्, तत् औष्मलिङ्गं भुक्ताहारपरिणमनकारणं, ततश्च विशिष्टतपः समुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः, उक्तं च- "सेव्वस्स उम्ह सिद्धं रसाइआहारपाकजणगं च । तेयगलद्धिनिमित्तं च तेयगं होइ नायव्वं ॥ १ ॥” ४, तथा कर्मणो जातं कर्मजं, किमुक्तं भवति ? - कर्मपरमाणव एवात्मप्रदेशैः सह क्षीरनीरवदन्योऽन्यानुगता. सन्तः शरीररूपतया परिणताः कर्मजं शरीरमिति, अत एवैतदन्यत्र का -
मित्युक्तं कर्मणो विकारः कार्मणमिति, तथा चोक्तम् — “केम्मविकारो कम्मणमह विविचित्तकम्म निप्पन्नं । सव्वेसि सरीराणं कारणभूयं गुणेयव्वं ॥ १ ॥" अ 'सच्चेसि' मिति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं - बीजभूतं कार्मणं शरीरं, न खल्वामूलमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुपि शेपशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं जन्तोर्गत्यन्तरसङ्क्रान्तौ साधकतमं कारणं, तथाहि — कर्मजेनैव वपुषा तैजसस हितेन परिकरितो जन्तुर्मरणदेश मपहायोत्पत्तिदेशमभिसर्पति, ननु यदि तैजस सहित कार्मणवपुः परिकरितो गत्यन्तरं संक्रामति तर्हि स गच्छन्नागच्छन् कस्मान्न दृष्टिपथमवतरति ?, उच्यते, कर्मपुद्गलानां तेजसपुद्गलानां चाति | सूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात् तथा च परतीर्थिकैरप्युक्तम् — “अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते । निष्क्रामन् प्रविशन् वाऽपि, नाभावोऽनीक्षणादपि ॥ १ ॥” एतेषां पश्वानां शरीराणां मध्ये यानि त्रीणि शरीराणि सूक्ष्मपृथिवीकायिकाना तानि नामग्राहमुपदर्शयति — तं जहा - ओरालिए तेयए कम्मए, वैक्रियाहारके तु तेषां न संभवतो, भवस्वभावत एव तल्लब्धिशून्यत्वात् ।
१ सर्वस्योष्ण्यसिद्ध रसायाहारपाकजनकं च । तेजोलब्धिनिमित्त च तेजस भवति ज्ञातव्यम् ॥ १ ॥ २ कर्मविकारः कार्मणमष्टविधविचित्रकर्मनिष्पन्नम् । सवृषां शरीराणा कारणभूतं, मुणितव्य ॥ १ ॥
१ प्रतिपत्ती सूक्ष्मपृथ्वीकायाः सू० १३
॥ १४ ॥