SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ विनेयस्य धर्मः कथनीयः, इत्थमेव सम्यक्प्रतिपत्तियोगादिति, त्रीणि शरीराणि प्रज्ञप्तानि, इह शरीराणि पश्च भवन्ति, तद्यथा-औदारिकं वैक्रियमाहारकं तैजसं कार्मणं च, तत्रोदारं-प्रधानं, प्राधान्यं चास्य तीर्थकरगणधरशरीराण्यधिकृत्य, ततोऽन्यस्यानुत्तरसुरशरीरस्यापि अनन्तगुणहीनत्वात् , यद्वा उदारं सातिरेकयोजनसहस्रमानवात शेषशरीरापेक्षया बृहत्प्रधान, बृहत्ता चास्य वैक्रियं प्रति भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथोत्तरवैक्रियं योजनलक्षमानमपि लभ्यते, उदारमेव औदारिकं, विनयादिपाठादिकण् १, तथा| विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं. तथाहि-तदेकं भवाऽनेक भवति अनेक भूत्वा एकं तथाऽणु भूत्वा महद्भवात महच भूत्वाऽणु तथा खचरं भूत्वा भूमिचरं भवति भमिचरं भत्ता खचरं तथा दृश्यं भवाऽदृश्यं भवति अदृश्य भूत्वा ६२चामात तञ्च द्विविधम्-औपपातिकं लब्धिप्रत्ययं च, तत्रौपपातिकमुपपातजन्मनिमित्तं, तच्च देवनारकाणां, लब्धिप्रत्ययं तिर्यग्मनुष्याणां २, तथा चतुर्दशपूर्व विदां तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशादाहियते-निर्वत्यैते इत्याहारकं, 'कृद्वहुलकमिति वचनात्कर्मणि बुज, यथा पादहारक इत्यत्र, उक्तं च-कैजंमि समुप्पन्ने सुयकेवलिणा विसिट्ठलद्धीए । जं एत्थ आहरिजई भणंति आहारगं तं तु ॥ १॥" कार्य चेदम-पाणिदयरिद्धिदसण सहमपयत्थावगाहहे वा । संसयवोच्छेयर्थ गमणं जिणपायमूलंमि ॥१॥” एतच्चाहारकं कदाचनापि लोके सर्वथाऽपि न भवति, तञ्चाभवनं जघन्यत एक समयमुत्कर्षतः षण्मासान् यावत्, उक्तं च-"आहारगाइ लोगे छम्मासा जा न होतिवि कयाई। उक्कोसेणं नियमा एक समयं जहन्नेणं ॥१॥" आहारकं च शरीर RA-- SERIAL MIL १ कायें समुत्पन्ने श्रुतकेवलिना विशिष्टलब्ध्या । यदनाहियते भणन्याहारकं तत्त॥१॥ २ प्राणिदयाऋद्धिदर्शनसूक्ष्मपदार्थावगाहहेतवे वा । संशय व्युच्छेदाथे गमन जिनपादमूले ॥१॥ ३ आहारकादयो नियमाल्लोके षण्मासान यावन्न भवन्त्यपि कदाचित् । उत्कृष्टतो नियमात् एक समय जघन्यन ॥१॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy