________________
अधुनाऽवगाहनाद्वारमाह — 'तेसिणं भंते !' इत्यादि सुगमं, नवरं जघन्य पदोत्कृष्टपदयोस्तुल्यश्रुतावपि जघन्यपदादुत्कृष्ट पदमधिकमवसातव्यम् ॥ संहननद्वारमाह- तेसिणमित्यादि, तेषां भदन्त ! जीवानां शरीरकाणि किंसंहननानि प्रज्ञप्तानि ?, संहननं नामास्थिनिचयरूपं, तच पोढा, तद्यथा-वज्रऋषभनाराचं ऋषभनाराचं नाराचमर्द्धनाराचं कीलिका छेदवर्त्ति च, तत्र वज्रं - कीलिका ऋषभ :-परिवेष्टनपट्ट: नाराचस्तूभयतो मर्कटबन्धः ततश्च द्वयोरस्भोरुभयतो मर्कटबन्धेन वंद्धयोः पट्टाकृतिं गच्छता तृतीयेनास्था परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद्वज्रऋषभनाराचसन्ज्ञं प्रथमं संहननं १ यत्पुनः कीलिकारहितं संहननं तत् ऋषभनाराचं द्वितीयं संहननं २, तथा यत्रास्नोर्मर्कटबन्ध एव केवलस्तन्नाराचसां तृतीयं संहननं ३, यत्र पुनरेकपार्श्वे मर्कटबन्धो द्वितीये च पार्श्वे कीलिका तदर्द्धनाराचं चतुर्थ संहननं ४, तथा यत्रास्थीनि कीलिकामात्रबद्धानि तत्कीलिकाख्यं प ध्वमं संहननं ५, तथा यत्रास्थीनि परस्परं छेदेन वर्त्तन्ते न कीलिकामात्रेणापि बन्धस्तत् षष्ठं छेदवर्त्ति, तच प्रायो मनुष्यादीनां नित्यं स्नेहाभ्यङ्गादिरूपां परिशीलनामपेक्षते ६, इत्थं षोढा संहननसम्भवे संशय: - तेषां शरीराणि किंसंहननानि प्रज्ञप्तानि ? इति, भगवानाह गौतम ! छेदवर्त्तिसंहननानि प्रज्ञतानि, अयमन्त्राभिप्राय: - यद्यपि सूक्ष्मपृथिवीकायिकानामस्थ्यभावस्तथाऽप्यौदारिकशरीरिणामस्थ्यामकेन संहननेन यः शक्तिविशेष उपजायते सोऽप्युपचारात्संहननमिति व्यवहियते, शक्तिविशेषश्चात्यन्तमल्पीयान् सूक्ष्मपृथिवीकायिकानामप्यस्त्यौदारिकशरीरित्वात्, जघन्यश्च शक्तिविशेषश्छेदवर्त्तिसंहननविषय इति तेषामपि छेदवर्त्तिसंहननमुक्तम् ॥ गतं संहननद्वारं, | सम्प्रति संस्थानद्वारमाह-- ' तेसिणं भंते!' इत्यादि सुगमं, नवरं 'मसूरगचंदसंठिया' इति, मसूरकाख्यस्य - धान्यविशेषस्य यञ्चन्द्राकृति दलं स मसूरकचन्द्रस्तद्वदनुसंस्थितानि मसूरकचंद्र संस्थिताति, अत्रायं भावार्थ:-इह जीवानां षट् संस्थानानि तानि च समचतुरस्रादीनि