________________
तथाऽभिधानता युज्यते, नान्यथा, एकान्तकस्वभावतायां तेषां वैचित्र्यायोगतस्तथा तथाऽभिधानप्रवृत्तेरसम्भवात् , एवं सति "अष्टविकल्पं देवं तिर्यग्योनं च पञ्चधा भवति । मानुष्यं चैकविधं समासतो भौतिकः सर्गः॥१॥” इति वाड्यात्रमेव, अधिष्ठातृजीवानामेकरूपत्वाभ्युपगमेन तथारूपवैचित्र्यासम्भवादिति, एवमन्येऽपि प्रवादास्तथा तथा वस्तुवैचित्र्यप्रतिपादनपरा निरस्ता द्रष्टव्याः, सर्वथैकस्वभावत्वाभ्युपगतौ वैचित्र्यायोगात् ॥ सम्प्रत्येता एव प्रतिपत्तीः क्रमेण व्याचिख्यासुः प्रथमत आद्यां प्रतिपत्तिं विभावयिपुरिदमाह__ तत्थ(णं) जे एवमाहंसु 'दुविहा संसारसमावण्णगा जीवा पं०' ते एवमाहंसु-तं०-तसा चेव ।
थावरा चेव ॥ (सू०९) 'तत्र' तेषु नवसु प्रतिपत्तिषु मध्ये ये द्विप्रत्यवतारविवक्षायां वर्तमाना एवं व्याख्यातवन्त:-द्विविधाः संसारसमापनका जीवा: प्रज्ञप्ता इति ते 'णम्' इति वाक्यालङ्कारे ‘एवं' वक्ष्यमाणरीत्या द्विविधत्वभावनार्थमाख्यातवन्तः, 'तद्यथे' त्युपन्यस्तद्वैविध्योपदर्शनार्थः,
साश्चैव स्थावराश्चैव, तत्र त्रसन्ति-उष्णाद्यभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ति गच्छन्ति च छायाद्यासेवनार्थ स्थानान्तरमिति त्रसाः, अनया च व्युत्पत्त्या त्रसालसनामकर्मोदयवर्त्तिन एव परिगृह्यन्ते, न शेषाः, अथ शेषैरपीह प्रयोजनं, तेषामप्यग्रे वक्ष्यमाणत्वात् , तत एवं व्युत्पत्तिः-त्रसन्ति-अभिसन्धिपूर्वकमनभिसन्धिपूर्वकं वा ऊर्द्धमधस्तिर्यक् चलन्तीति प्रसा:-तेजोवायवो द्वीन्द्रियादयश्च, उष्णाद्यभितापेऽपि तत्स्थानपरिहारासमर्थाः सन्तस्तिष्ठन्तीत्येवंशीलाः स्थावरा:-पृथिव्यादयः, चशब्दौ खगतानेकभेदसमुच्चया, एवकारा
ववधारणार्थों, अत एव संसारसमापन्नका जीवाः, एतद्व्यतिरेकेण संसारिणामभावात् ॥ तत्राल्पवक्तव्यत्वात्प्रथमतः स्थावरानभिधित्सु13स्तत्प्रश्नसूत्रमाह