________________
जीवाजीवाभि० प्रतिपत्तिः
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
त ॥९॥
है
से किं तं थावरा?, २ तिविहा पन्नसा, तंजहा-पुढविकाइया १ आउकाइया २ वणस्सइकाइया ३॥ (सू०१०) अथ के ते स्थावरा:?, सूरिराह-स्थावरात्रिविधाः प्रज्ञप्ताः, तद्यथा-पृथिवीकाया एव पृथिवीकायिकाः, आर्षत्वात्स्वार्थे इकप्रत्ययः, आपो-द्रवास्ताश्च प्रतीताः ता एव काय:-शरीरं येषां ते अप्कायाः अप्काया एवाप्कायिकाः, वनस्पति:-लतादिरूपः प्रतीत: स एव कायः-शरीरं येषां ते वनस्पतिकायाः वनस्पतिकाया एव वनस्पतिकायिकाः, सर्वत्र बहुवचन बहुवख्यापनार्थ, तेन 'पृथिवी देवते'त्यादिना यत्तदेकजीवत्वमानप्रतिपादनं तदपास्तमवसेयं, यदि पुनस्तदधिष्ठात्री काचनापि देवता परिकल्प्यते तदानीमेकत्वेऽप्यविरोधः । इह सर्वभूताधारः पृथिवीति प्रथमं पृथिवीकायिकानामुपादानं, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानां, तदनन्तरं "जत्थ जलं तत्थ वणं" इति सैद्धान्तिकवस्तुप्रतिपादनार्थ वनस्पतिकायिकानामिति, इह त्रिविधत्वं स्थावराणां तेजोवायूनां लब्ध्या स्थावराणामपि सतां गतित्रसेष्वन्तावविवक्षणात्, तथा च तत्त्वार्थसूत्रमप्येवं व्यवस्थितं "पृथिव्यम्बुवनस्पतयः स्थावराः ॥ तेजोवायू द्वीन्द्रियादयश्च त्रसाः” (तत्त्वा० अ० २ सू० १३-१४) इति, तत्र 'यथोद्देशं निर्देश' इति प्रथमतः पृथिवीकायिकप्रतिपादनार्थमाह
से किंतं पुढविकाइया?, २दुविहा पं०, तं०-सुहुमपुढविकाइया य बायरपुढविक्काइया य ॥ (सू०११) अथ के ते पृथिवीकायिकाः?, सूरिराह-पृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मपृथिवीकायिकाश्च बदरपृथिवीकायिकाश्च, तत्र सूक्ष्मनामकर्मोदयात्सूक्ष्मा वादरनामकर्मोदयात्तु बादराः, कर्मोदयजनिते खल्वेते सूक्ष्मवादरत्वे, नापेक्षिके वदामलकयो- ५
%
2