________________
आत्मस्वरूप को मग्नता में साम्यभाव का अवलम्बन करना हो नियिचिकित्सा अंग है।
चतुरशीतिलक्षे भ्रमितः कालमनाधनन्तं । परं सम्यक्त्वं न लब्धं जीव! एतज्जानीहि निन्तिम् ॥२५॥ शुद्धः सचेतनः बुद्धः जिनः केवलज्ञान स्वभावः । तं आत्मानं अनुदिनं मन्यस्व य दीच्छसि शिवलाभं ॥२६॥
यावन्न भावयसि जीव! त्वं निर्मलात्म स्वभावम् । तावन्न लभसे शिवगमनं यत्र भाति तत्र याहि ॥२७॥ यस्त्रिलोकस्य ध्येयो जिनः स आत्मा निजः उक्तः ।
निश्चयनयेन एवं भणितः एतज्जानीहि निर्धान्तम् ॥२८॥ बततपः संयममूलगुणैः मूढर्मोक्षो निरुक्तः । यावन्न जानाति एक परं शुद्ध स्वभाव पवित्रं ॥२९॥ यो निर्मलं आत्मानं मनुते व्रतसंयम संयुक्तम् । सलघु प्राप्नोति सिद्ध सुखं इति जिननायरक्तम् ॥३०॥
ततपः संयम शीलानि जीव! एतानि सर्वाणि व्यर्थानि । यावन्न जानाति एकं परं शुद्ध स्वभाव पवित्रम् ॥३१॥ पुण्येन प्राप्नोति स्वर्ग जीवः पापेन नरक निवासम् । ।
द्वयं त्यक्त्वा आत्मानं मनुते तेन लभ्यते शिववासः ॥३२॥ बत तपः संयमशीलानि जीव ! एतानि सर्वाणि व्यवहारेण । मोक्षस्य कारणं एकं मन्यस्व यः त्रिलोकस्य सारः ।।३३।। आत्माना आत्मानं यो मनुते यः परभावं त्यजति । स प्राप्नोति शिवपुरगमनं जिनवर एवं भगति ॥३४॥
षद्रव्याणि यानि जिनकथितानि नव पदार्थाः ये तत्वानि । व्यवहारेण जिनोक्तानि तानी जानीहि प्रयत्नेन ॥३॥ सर्वान् अचेतनान् जानीहि जीवं एक सचेतनं सारम् । यं ज्ञात्वा परममुनिः लघु प्राप्नोति भवपारम् ॥३६॥ यंः निर्मलं आत्मानं मनुते त्यक्त्वा सर्वव्यवहारम् ।
जिन स्वामी एवं भणति लघु प्राप्नोति भवपारम् ॥३७॥ [२४]