SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ । अतिन्द्रिय आनन्द में मग्न रहना ही निकांक्षिस अंग है। देहादयोये परे कथिताः ते आत्मां न भवन्ति । इति ज्ञात्वा जीव ! त्वं आत्मना आत्मानं मन्यस्व ॥११॥ आत्माना आत्मानं यदि मन्यसे ततः निर्वाणं लभसे। परं आत्मनं यदि मनुषे त्वंतहि संसारं भ्रमसि ॥१२॥ इच्छा रहितस्तपः करोषि आत्मना आत्मानं मनुषे । ततो लघु प्राप्नोसि परमति पुनः संसारे नायासि ॥१३॥ परिणामै बन्धोऽपि कथितः मोक्षोपि तैरेव विजानीहि । इति ज्ञात्वा जीव ! त्वं तान् भावान परिजानीहि ॥१४॥ अथ पुनरात्मानं न मनुषे पुण्यमपि करोषि अशेषम् । तथापि न प्राप्नोषि सिद्ध सुखं पुनः संसारे भ्रमसि ॥१५॥ आत्मदर्शनं एक परं अन्यत् न किंचिदपि विजानीहि । मोक्षस्य कारणं योगिन् ! निश्चयेनैतत् जानीहि ॥१६॥ मार्गणागुण स्थानानि कथितानि व्यवहारनयेन अपि दृष्टि । निश्चयनयेन आत्मानं मन्यस्वयेन प्राप्नोषि परमेष्ठिनं ॥१७॥ गृहव्यापारे परिस्थिताः हेयमहेयं मन्यते । अनुदिनं ध्यायन्ति देवं जिनं लघु निर्वाणं लभन्ते ॥१८॥ जिनं स्मर जिनं चिन्तय जिनं ध्यायस्व सुमनसा । तं ध्यायमानः परमपदं लभते एक क्षणेन ॥१६॥ शुद्धात्मनि च जिनवरे भेदं माकिमपि विजानीहि । मोक्षस्य करणं योगिन्! निश्चयेन एतत् विजानीहि ॥२०॥ यो जिनः तं आत्मानं मन्यस्व एष सिद्धान्तस्य सारः। इति ज्ञात्वा योगिन् ! त्यज मायाचारम् ॥२१॥ यः परमात्मा स एव अहं योऽहं स परमात्मा । इतिज्ञात्वा योगिन् अन्यन्मा कार्षीः विकल्पम् ॥२२॥ शुद्ध प्रदेशः पूरितः लोकाकाश प्रमाणः । तं आत्मानं अनुदिनं मन्यस्व प्राप्नोषि लघुनिर्वाणं ॥२३॥ निश्चयेन लोकप्रमाणं मन्यस्व व्यवहारेण स्वशरीरस्य । इमं आत्मस्वभावं मन्यस्व लघु प्राप्नोषि भवतीरम् ॥२४॥ [२१] 54
SR No.010765
Book TitleChandrasagar Smruti Granth
Original Sutra AuthorN/A
AuthorSuparshvamati Mataji, Jinendra Prakash Jain
PublisherMishrimal Bakliwal
Publication Year
Total Pages381
LanguageHindi
ClassificationSmruti_Granth
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy