________________
यदि तुम किसी की प्रशंशा नहीं कर सकते हो तो निन्दा तो मत करो। शुक्ल प्रतिपदा गर्भमल्लिः कुन्थुस्तृतीयया। ज्ञाने जितोऽभूत्पंचम्यां मोक्षोषष्टयां च सम्भवः ।।२७॥ एकादश्यां जनिनिमोक्षान्सुमति रुद्भवम् । वीरः प्राप्तस्त्रयोदश्यां पद्माभोंत्येन्हि केवलम् ॥२८॥
पार्श्वः कृष्णे द्वितीयायां वैशाखे गर्भमाविशत् ॥ नवम्यां सुबतो ज्ञानं दशम्यां च जनियते ॥२६॥ धर्मो गर्भ त्रयोदश्यां चतुर्दश्यां नमिः शिवम् ॥
शुक्ल प्रतिपदि प्राप कुन्थुर्जन्मतपः शिवम् ॥३०॥ प्राप्तोऽभिनन्दनः पष्ठयां शुक्लायां गर्भमोक्षणम् ॥ नवम्यां सुमतिवीरोदशम्यां ज्ञानमक्षयम् ॥३१॥ श्रेयान् ज्येष्ठे सिते षष्ठयां दशम्यां विमलोऽपि च ।। गर्भ समाश्रितोऽनन्तो द्वादश्यां जन्मनिष्क्रमौ ॥३२॥
शान्तिः श्रितश्चतुर्दश्यां जन्मदीक्षाशिव श्रियः॥ अमावश्या दिने गर्भमवतीर्णो जितेश्वरः ॥३३॥ शुक्ल चतुर्या निर्वाणं प्राप्तो धर्मो जिनेश्वरः ।।
सुपार्श्वनाथो द्वादश्यां जनि प्रवृजिते स्थितः ॥३४॥ इतिमां वृषभादीनां पुष्यत्कल्याणमालिकां ॥ करोति कण्ठे भुषां यः स स्यादाशाघरे पंडितः ॥३५॥
इत्याशाधर विरचिता कल्याणमाला समाप्ता ॥
- श्री शान्ति ने नमः
[१२४]