________________
मात्म स्वरूप अनंत मानन्द मात्मा के द्वारा साध्य है।
एकादश्यां जनुर्दोक्षे मल्लेर्ज्ञानं नमेस्तथा। अरजन्म चतुर्दश्यां पक्षान्ते सम्भवं नतम् ॥१३॥ पौष कृष्णे द्वितीयायाँ मल्लिः केवल्यमासदत् । चन्द्र प्रभस्तथा पार्श्व एकादश्यां जनिवते ॥१४॥
शीतलस्तु चतुर्दश्यां कैवल्य मुदमी मिलत् । शान्तिनाथो दशम्यान्तु शुक्ले कैवल्य मापिवान् ॥१५॥ एकादश्यान्तु कैवल्यमजितेशो ऽभिनन्दनः ।
चतुर्दश्यां पूर्णिमायां धर्मश्चलभते स्म तत् ॥१६॥ माघे पद्मप्रभः कृष्णे षष्ठ्यां गर्भमवातरत् । शीतलस्य जनुक्षि द्वादश्यां वृषभस्य तु ॥१७॥ मोक्षोऽभवच्चतुर्दश्यां दर्श श्रेयांस केवलम् । शुक्लपक्षे द्वितीयाया वासुपूज्यस्य केवलम् ॥१८॥
चतुर्थ्या विमलो जन्मदीक्षे षष्ठ्यां च केवलम् । नवम्यामजितो दीक्षां दशम्यां जन्म चासदत् ॥१६॥ अभिनन्दन नाथस्य द्वादश्यां जन्म निष्क्रमौ ।
धर्मस्य जन्मतपसी त्रयोदश्यां बभूवतुः ॥२०॥ चतुर्था फाल्गुने कृष्णे मुक्ति पद्मप्रभोगतः । षष्ठ्यांसुपावः कैवल्यं सप्तम्यां चापनिर्वृतिम् ॥२१॥ सप्तम्यामेव कैवल्य मोक्षौ चन्द्रप्रभोऽभजत् । नवन्यां सुविधिर्गर्भमेका दश्यांतु केवलम् ।।२२।।
वृषो जन्मवते तद्वच्छ यान्मुक्ति तु सुवृतः । द्वादश्यां वासुपूज्यस्त चतुर्दश्यां जनिवाते।॥२३॥ अरः शुक्ले तृतीयायां गर्भ मल्लिस्तु निर्वृतिम् ।
पंचम्यां प्रापदण्टम्याँ गर्भ श्रीसंभवोऽपि च ॥२४॥ चत्र चतुर्थ्या कृष्णेऽभूत्पार्श्वनाथस्य केवलम् । पंचम्यां चन्द्रप्रभो गर्भमष्टम्यां शोतलोऽश्रयत् ॥२५॥ नवम्यां जन्म तपसी वृषभम्य वभूवतुः । फैवल्यंमप्य मावास्यां मोक्षोऽनन्तस्य चाभवत् ।।२६॥
[१२३]