________________
मन बचन काय की सरलता संसार नाशक है।
00oooooooooooon ॐ () श्रीमत्पंडिताशाधर विरचिता ह्रीं () कल्याण-माला
cle
पुरुदेवादि वीरान्त जिनेन्द्राणं ददातु नः। श्रीमद्गर्भादि कल्याण श्रेणी निश्रेयसः श्रियम् ॥१॥ शुचौ कृष्णे द्वितीयायां बृषभो गर्भमाविशत् । वासुपूज्यस्तथा षष्ठ्यामष्टम्यां विमलः शिवम् ॥२॥
दशम्यां जन्म तपसी नमेः शुक्ले तु सन्मतेः । षष्ठयां गर्भोभवन्नेमेः सप्तम्यां मोक्षमाविशत् ॥३॥ सुनतः श्रावणे कृष्णे द्वितीयायां दिवच्युतः ।
कुन्थुर्दशम्यां शुक्ले तु द्वितीये सुमतिस्थितौ ॥४॥ जन्म निष्क्रमणे षष्ठ्यां नेमेः पावः सुनिर्वृतः । सप्तम्यां पूर्णिभायां तुश्रेयान्निः श्रेयसं गतः ॥५॥ भाद्र कृष्णस्य सप्तम्यां गर्भ शान्तिरवातरत् । गर्भावतरणं षष्ठ्याँ सुपार्श्वस्य सितेऽभवत् ॥६॥
पुष्पदन्तस्य निर्वाणं शुक्लाष्टम्यामजायत । श्रितः शुक्लचतुर्दश्यां वासुपूज्यः परं पदम् ॥७॥ अश्विनेऽभद्वितीयायां कृष्णे गर्भो नमः सिते।
नेमे प्रतिपद्विज्ञानं सिद्धोष्टम्यां च शीतलः ।।८।। अनन्तः कातिके कृष्णे गर्भेऽभूत्प्रतिपद्दिने । चतुर्थ्या शंभवाधीशः । केवलज्ञानमापिवान् ॥६॥ पद्मप्रभ स्त्रयोदश्यां प्राप्तो जन्माते शिवम् । दर्श वीरो द्वितीयायां कैवल्यं सुविधिः स्थितः ॥१०॥
षष्ठ्याँ गर्भोऽभवन्नेमेादश्यां केवलोद्भवः । अरनाथस्य पक्षान्ते संभवेशस्य जन्म च ॥११॥ मार्गे दशम्या कृष्णेऽगाद्वीरोवोक्षां जनिव्रते।
सुविधेः पक्षान्ते शुक्ले दशम्यांवर दोक्षणम् ॥१२॥ [१२२]