________________
वाणी से कटु वचन मत बोलो।
सदसवैये ८॥ दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यस्त्रिद्विनवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यऽकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः ॥६॥ नारकर्यग्योनमानुषदेवानि ॥१०॥ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसंघात संस्थानसंहननस्पर्शरसमन्धवर्णानुपूाऽगुरुलघूपघातपरघातातपोद्योतो च्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकोतिसेतराणि तीर्थकरत्वं च ॥११॥ उच्चैर्नीचश्च ॥१२॥ दानलाभभोगोपभोगवीर्याणाम् ॥१३॥ आदित स्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटोकोटयः परास्थितिः ॥१४॥ सप्ततिर्मोहनीयस्य ॥१५॥ विशतिर्नामगोत्रयोः ॥१६॥ त्रस्त्रिशत्सागरोपमाण्यायुषः ॥१७॥ अपरा द्वादश मुहुर्ता वेदनीयस्य ॥१८॥ नामगोत्रयोरष्टौ ॥१६॥ शेषाणामन्तर्मुहूर्ता ॥२०॥ विपाकोऽनुभवः ।।२१। स यथानाम ॥२२॥ ततश्च निर्जरा ॥२३॥ नामप्रत्यया सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥२४॥ सद्व घशुभायुर्नामगोत्राणि पुण्यम् ॥२५॥ अतोऽन्यत्पापम् ॥२६॥
इति तत्वार्थविगमे मोक्षशास्त्रोऽष्टमोऽध्यायः ।।८।। आसवनिरोधः संवरः ॥१॥ स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रः ॥२॥ तपसा निर्जरा च ॥३॥ सम्यग्योगनिग्रहो गुप्तिः ॥४॥ ई-भाषेषणादाननिक्षेपोत्सर्गाः समितयः ॥५॥ उत्तमक्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिञ्चन्यब्रह्मचाणि धर्मः ॥६॥ अनित्याशरणसंसारकत्वान्यत्वाशुच्यासवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्वानुचितनमनुप्रेक्षाः ॥७॥ मार्गाच्यवननिर्जरार्थपरिषोढव्यः परी षहाः ।।। क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाच्चालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञानाऽदर्शनानि ॥६॥ सूक्ष्मसाम्परायच्छप्रस्थवीतरागयोश्चतुर्दश॥१०॥एकादजिने।।११॥वादरसाम्परायेसा॥१२॥ज्ञानावरणे प्रज्ञाज्ञान।।१३॥ दर्शनमोहान्तराययोरदर्शनालाभौ ॥१४॥ चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाच्चासत्कारपुरस्काराः ॥१५॥ वेदनीये शेषाः ॥१६॥ एकादयो भाज्या युगपदेकस्मिन्नकोनविंशतिः ॥१७॥ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातमिति चारित्रम् ॥१८॥ अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्यं तपः ॥१६॥ प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥२०॥ नवचतुर्दशपञ्चद्विभेश यथाक्रमं प्राग्ध्यानात् ॥२१॥ [१२०]