________________
पाप कर्मों में बुद्धि का प्रवेश बिना प्रयत्न होता है।
KANIMATE ANTEAVITANEVENEVERMA आचार्य श्रीमदुमास्वामि विरचितं तत्त्वार्थाधिगम मोक्ष शास्त्रम्
तत्त्वार्थ सूत्रं
मोक्षमार्गस्य नेतारं, भेत्तारं कर्मभूभृताम् ।
ज्ञातारं विश्वतत्त्वाना, वन्दे तत्गुणलव्धये ॥१॥ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥१॥ तत्त्वार्यश्रद्धानं सम्यग्दर्शनम् ॥२॥ तन्निसर्गादधिगमाद्वा ॥३॥ जीवा जीवासव बन्ध संवर निर्जरा मोक्षास्तत्त्वम् ॥४॥ नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥५॥ प्रमाणनयैरधिगमः ॥६॥ निर्देशस्वामित्वसाधनाऽधिकरण स्थितिविधानतः ॥७॥ सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ll मतिश्रुतावधिमनः पर्ययकेवलानि ज्ञानम् ॥६॥ तत्प्रमाणे ॥१०॥ आद्य परोक्षम् ॥११॥ प्रत्यक्षमन्यत् ॥१२॥ मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनन्तरम् ॥१३॥ तदिन्द्रियानिन्द्रयनिमित्तम् ॥१४॥ अवग्रहेहावायधारणाः।।१५।। बहुबहुविधक्षिप्राऽनिःसृताऽनुक्तध्र वाणा सेतराणाम् ॥१६॥अर्थस्य ॥१७॥व्यञ्जनस्यावग्रहः।।१८॥न चक्षुरनिन्द्रियाभ्याम्।।१६॥श्रुतं मतिपूर्व द यनेकद्वादशभेदम् ॥२०॥ भवप्रत्ययोऽवधिदेवनारकाणाम् ॥२१॥ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥२२॥ ऋजुविपुलमती मनःपयर्यः ॥२३॥ विशुद्धयप्रतिपाताभ्यां तद्विशेषः ॥२४॥ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्ययोः ॥२५॥ मतिश्रु तयोनिबन्धो द्रव्येष्वसर्वपर्यायेषु ॥२६॥ रूपिण्ववधेः ॥२७॥ तदनन्तभागे मनःपर्ययस्य ॥२८॥ सर्वद्रव्यपर्यायेषु केवलस्य ॥२६॥ एकादीनि भाज्यानि युगपदेकरिमन्नाचतुर्थ्यः ॥३०॥ मतिश्रु तावधयो विपर्ययश्च ॥३१॥ सदसतोरविशेषाद्यदृच्छोपलब्धरुन्मत्तवत् ॥३२॥ नैगमसंग्रहव्यवहारर्जु सूत्रशब्दसमभिदैवंभूता नयाः ॥३३॥
इति तत्त्वार्थधिगमे मोक्षशास्त्रो प्रथमोऽध्यायः ॥१॥
औपशमिकक्षायिको भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिको च ॥१॥ द्विनवाष्ठादर्शकविंशति त्रिभेदा यथाक्रमम् ॥२॥ सम्यक्त्वचारित्रे ॥३॥ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्वचारित्र संयमासंयमाश्च ॥५॥ गतिकषायलिंगमिथ्यादर्शनाऽज्ञाना[११४]