SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ पर द्रव्य का ममत्व कर्म बन्धन का जाल है। यमीश्वरं वीक्ष्य विधूत कल्मषं, तपोधनास्तेऽपि तथा बुभूषवः । वनौकसः स्वश्रमबन्ध्यबुद्धयः, शमोपदेशं शरणं प्रपेदिरे ॥१३४॥ स सत्यविद्या तपसां प्रणायकः, समगधीरुन कुलाम्बरांशुमान् । मया सदा पार्श्वजिनः प्रणम्यते, विलीन मिथ्यापथदृष्टिविभ्रमः ॥१३॥ इति पार्श्वजिन स्तोत्रम् ॥२३॥ कीर्त्या भुवि भासि तया वीर, त्वं गुणसमुच्छ्या भासितया। भासोडुसभासितया सोम इव, व्योम्नि कुन्द शोभासितया ।।१३६॥ तव जिन शासन विभवो, जयतिकलावपिगुणानुशासनविभवः । दोषकशासन विभवः स्तुवंति चैनं, प्रभाकृशासन विभवः ॥१३७॥ अनवद्यः स्याद्वादस्तव, दृष्टेष्टा विरोधतः स्याद्वादः । इतरो न स्याहादो सद्वितय विरोधान्मुनीश्वराऽस्याद्वादः ।।१३।। त्वमसि सुरासुरमहितो ग्रन्थिक सत्त्वाशय प्रणामामहितः । लोकत्रय परम हितोऽनावरण ज्योति रुज्वलद्धा महितः ।।१३९।। सन्यानामभिरुचितं दधासि गुण भूषणं श्रिया चारु चितम् । मग्नं स्वस्यां रुचिरं जयसि च मृगलांछनं स्वकान्त्या रुचितम् ॥१४०॥ त्वं जिन गतमदमायस्तव भावानां मुमुक्षुकामदमायः । श्रेयान् श्रीमदमायस्त्वया समादेशि सप्रयामदमायः ॥१४१॥ गिरभित्त्यवदानवतः श्रीमत इव दन्तिनः श्रवद्दानवतः । तव शमवादानवतो गतमूर्जितमपगत प्रमादानवतः ।।१४२॥ बहुगुण संपद सकलं परमतमपि मधुरवचन विन्यासकलम् । नय भक्त्यवतं सकलं तव देव मतं समन्तभद्र सकलम् ॥१४३।। इति वीर जिनस्तोत्रम् ॥२४॥ यो निःशेष जिनोक्त धर्म विषयः श्रीगौतमाद्यः कृतः, सूक्तार्थैरमलः स्तवोयमसमः स्वल्प प्रसन्न पदैः। सव्याख्यानमदो यथाझवगतः किञ्चित्कृतं लेशतः, स्थेयांश्चन्द्र दिवाकरावधि बुधप्रह्लादचेतस्यलम् ॥१४४॥ इति बृहत्स्वयम्भू स्तोत्रम् समाप्तम् । [१०६]]
SR No.010765
Book TitleChandrasagar Smruti Granth
Original Sutra AuthorN/A
AuthorSuparshvamati Mataji, Jinendra Prakash Jain
PublisherMishrimal Bakliwal
Publication Year
Total Pages381
LanguageHindi
ClassificationSmruti_Granth
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy