________________
पर द्रव्य का स्वामी सबसे बड़ा चोर है।
बाह्यं तपः परमदुश्चरमाचरंस्त्व, माध्यात्मिकस्य तपसः परिवहणार्थम् । ध्यानं निरस्य कलुषद्वयमुत्तरस्मिन्, ध्यानद्वये ववृतिषेतिशयोपपन्ने ॥३॥ हुत्वा स्वकर्मकटुक प्रकृतीश्चतस्त्रो, रत्नत्रयातिशय तेजसि जातवीर्यः । विभाजिषे सकलवेद विविनेता, व्यः यथा वियति दीप्तरुचिर्विवस्वान् ॥५४॥ यस्मान्मुनीन्द्र तव लोकपितामहाद्या, विद्याविभूतिकणिकामपि नाम्नुवन्ति । तस्माद् भवन्तमजम प्रतिमेय मार्याः, स्तुत्यं स्तुवन्ति सुधियः स्वहितकतानाः ॥१५॥
___ इति कुन्थु जिन स्तोत्रम् ॥१७॥ गुणस्तोकं सदुल्लंघ्य तद्बहुत्वकथा स्तुतिः । आनन्त्यात्ते गुणा वक्तुमशक्यास्त्वयि सा कथम् ॥१६॥ तथापि ते मुनीन्द्रस्य यतो नामापि कीर्तितम् ।। पुनाति पुण्यकीर्तेर्नस्ततो ब्रूयाम किञ्चन ॥७॥ लक्ष्मी विभव सर्वस्वं मुमोक्षोश्चक्र लाञ्छनम् ।। साम्राज्यं सार्वभौमं ते जरतृणमिवाभवत् ॥१८॥ तव रूपस्य सौन्दर्य दृष्ट्वा तृप्तिमनापिवान् ।। द्वयक्षः शक्रः सहस्त्राक्षो बभूव बहुविस्मयः ॥६॥ मोहरूपो रिपुः पापः कषाय भट साधनः । दृष्टि सम्पदुपेक्षा स्त्रस्त्वया धीर पराचितः ॥६॥ कन्दर्प स्योद्वरो दर्पस्त्र लोक्य विजयाजितः । हेपयामास तं धीरे त्वयि प्रतिहतोदयः ॥९१॥ आयत्यां च तदात्वे च दुःखयोनिनिरुत्तरा। तृष्णानदी त्वयोत्तीर्णा विद्यानावा विविक्तया ॥२॥ अन्तकः क्रन्दको नृणां जन्मज्वरसखा सदा । त्वामन्तकान्तकं प्राप्य व्यावृत्तः कामकारतः ॥६३॥ भूषावेषा युधत्यागि विद्यादम दया परम् । रूपमेव तवाचष्टे धीर दोष विनिग्रहम् ॥६४॥ समन्ततोऽगभासां ते परिवेषेण भूयसा ।
तमो बाह्यमपाकीर्णम ध्यात्म ध्यान तेजसा ॥६५॥ [१०२]