________________
अहंदू भक्ति कोष मान माया लोभादि पिशाचो से पीड़ित मानव के लिये महामंत्र है।
पूज्यं जिनं त्वार्चयतो जनस्य, सावद्यलेशो बहुपुण्यराशौ । दोषाय नालं कणिका विषस्य, न दूषिका शीतशिवाम्बुराशौ ॥१८॥ यद्वस्तु बाह्यं गुणदोषसूते, निमित्तमभ्यन्तर मूलहेतोः । अध्यात्म वृत्तस्य तदंगभूत, मभ्यन्तर केवलमप्यलं ते ॥५९॥ बाहोतरोपाधि समग्रतेयं. कार्येषु ते द्रव्यगतः स्वभावः । नैवान्यथा मोक्षविधिश्च पुंसां, तेनाभिवन्धस्त्वमषिबुधानाम् ॥६०॥
इति वासुपूज्य जिन स्तोत्रम् ॥१२॥ । य एव नित्यक्षणिकादयो नया, मिथोऽनपेक्षाः स्वपरप्रणाशिनः । त एव तत्त्वं विमलस्य ते मुनेः, परस्परेक्षाः स्वपरोपकारिणः ॥६१॥ यथैकशः कारकमर्थसिद्धये, समीक्ष्य शेषं स्वसहायकारकम् । तथैव सामान्यविशेष मातृका, नयास्तवेष्टा गुणमुख्यकल्पतः ॥६२।। परस्परेक्षान्वय भेद लिंगतः, प्रसिद्ध सामान्य विशेषयोस्तव । समग्रतास्ति स्वपरावभासकं, यथा प्रमाणं भुवि बुद्धिलक्षणम् ॥६॥ विशेषवाच्यस्य विशेषणं ववो, यतोविशेष्यं विनियम्यते च यत् । तयोश्च सामान्यमतिप्रसज्यते, विवक्षितात्स्यादितितेऽन्यवर्जनम् ॥६४॥ नयास्तव स्यात्पदसत्यलाञ्छिता, रसोपविद्धा इव लोह धातवः । भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणिताहितैषिणः ॥६५॥
इति विमल जिन स्तोत्रम् ॥१३॥ अनन्तदोषाशयविग्रहो ग्रहो, विषंग वान्मोहमयश्चिरं हृदि । यतो जितस्तत्त्वरुचौ प्रसीदता, त्वया ततोभूभगवाननन्तजित् ॥६६।। कषायनाम्नां द्विषता प्रमाथिनाम, शेषयन्नाम भवानशेषवित् । विशोषणं मन्मथदुर्मदामयं, समाधिभषज्य गुणळलोनयन् ॥६७॥ परिश्रमाम्बुर्भयवीचिमालिनी, त्वया स्वतृष्णासरिदार्थ शोषिता। असंगधर्मार्क गभस्ति तेजसा, परं ततो निवृतिधाम तावकम् ॥६॥ सुहृत्त्वयि श्रीसुभगत्वमश्नुते, द्विषत्वयिरं प्रत्यय वत्प्रलीयते । भवानुदासी नत मस्त योरपि, प्रभो प चित्रमिदं तवेहितम् ॥६६॥ त्वमीदृशस्तादृश इत्ययं मम, प्रलापलेशो ऽल्पमतेमहामुने । अशेषमाहात्म्यमनीर यन्नपि, शिवाय संस्पर्श इवामृताम्बुधेः ॥७०॥
इतिअनन्त जिन स्तोत्रम् ।।१४॥ [१००]