________________
अहंद भक्ति विभाव भाव रूपी वादलों को नाशक प्रलय काल की वायु है।
सर्वस्य तत्त्वस्य भवान् प्रमाता, मातेव बालस्य हितानुशास्ता। गुणावलोकस्य जनस्य नेता, मयापि भक्त्या परिणूयसेऽद्य ॥३५।।
इति सुपार्श्वजिन स्तोत्रम् ॥७॥ चन्द्रप्रभं चन्द्रमरीचि गौरं, चन्द्र द्वितीयं जगतीव कान्तम् । वन्देऽभिवन्ध महतामृषीन्द्र, जिनं जितस्वान्त कषायबन्धम् ॥३६॥ यस्यांग लक्ष्मी परिवेष भिन्नं, तमस्तमोरेरिव रश्मि भिन्नम् । ननाश वाह्यं बहुमानसं च, ध्यान प्रदीपाति शयेन भिन्नम् ॥३७॥ स्वपक्ष सौ स्थित्य मदावलिप्ता, वाकसिंह नादविमदा बभूवुः । प्रवादिनो यस्य मदा गण्डा, गजा यथा केशरिणो निनादैः ॥३॥ यः सर्वलोके परमेष्टितायाः, पदं वभूवाद्भुत कर्म तेजाः । अनन्त धामाक्षरविश्व चक्षुः, समेतदुःख क्षय शासनश्च ।।३६॥ स चन्द्रमा भव्य कुमुद्वतीनां, विपन्न दोषाभ्र कलंकलेपः । व्याकोशवांगन्याय मयूखमालः, पूयात् पवित्रो भगवान्मनो मे ॥४०॥
इति चन्द्रप्रभ जिन स्तोत्रम् ॥८॥ एकान्त दृष्टि प्रतिषेधि तत्त्वं, प्रमाणसिद्धं तद तत्स्वभावम् । त्वया प्रणीतं सुविधे स्वधाम्ना, नैतत्स मालीढपदं त्वदन्यैः ॥४१॥ तदेव च स्यान्न तदेव च स्या, तथा प्रतोतेस्तब तत्कयंचित् । नात्यन्तम न्यत्व मनन्यता च, विनिषेधस्य च शून्यदोषात् ॥४२॥ नित्यं तदे वेदमिति प्रतीतेन, नित्य मन्य प्रति पत्तिसिद्धेः । न तद्विरुद्व बहिरन्तरंग, निमित्त नैमित्तिक योगतस्ते ॥४३॥ अनेकमेकं च पदस्य वाच्यं, वृक्षा इति प्रत्ययवत्प्रकृत्या। आकांक्षिणः स्यादिति वै निपातो, गुणानपेक्षे नियमेऽपवादः ॥४४॥. गुणप्रधानार्थमिदं हि वाक्यं, जिनस्य ते तद्विषतामपथ्यम् । ततोऽभिबन्ध जगदीश्वराणां, ममापि साधोस्तव पादपद्मम् ॥४५॥
इति सुविधि जिन स्तोत्रम् ॥६॥ [8]