________________
अहंदु भक्ति यम रूपी सिंह के मुख से बचाने के लिये अष्टापद है।
त्वं शम्भवः संभवतर्षरोगैः, संतप्यमानस्य जनस्य लोके । आसीरिहाकस्मिक एव वैद्यो, वैद्यो यथा नाथ रुजां प्रशान्त्यै ॥११॥ अनित्यमत्राण महं क्रियाभिः, प्रसक्त मिथ्या ध्यवसाय दोषम् । इदं जगज्जन्मजरान्तकात, निरञ्जना शान्तिमजीगमस्त्वम् ।।१२।। शतहृदोन्मेषचलं हि सौख्यं, तृष्णामयाप्यायनमात्रहेतुः । तष्णाभिवृद्धिश्च तपत्यजस्, तापस्तदायासयतीत्यवादीः ॥१३॥ बंधश्च मोक्षस्च तयोश्च हेतु, बद्धश्च मुक्तश्च फलं च मुक्तेः। स्याद्वादनो नाथ तवैव युक्त, नैकान्तदृष्टेस्त्वमतोऽसि शास्ता ॥१४॥ शक्रोऽप्यशक्तस्तव पुण्यकीर्तेः, स्तुत्या प्रवृत्तः किमु मादृशोऽज्ञः । तथापि भक्त्या स्तुतपादपद्मो, ममार्य देयाः शिवतातिमुच्चैः ॥१५॥
इति शभव जिन स्तोत्रम् ॥३॥ गुणाभिनन्दादभिनन्दनो भवान्, दयावधूं क्षान्तिसखीमशिश्रियत् । समाधितन्त्रस्तदुपोपपत्तये, द्वयेन नैनन्थ्यगुणेन चायुजत् ॥१६॥ अचेतने तत्कृतबन्धजेऽपि, ममेदमित्या भिनिवेशकग्रहात् । प्रभंगुरे स्थावरनिश्चयेन च, क्षत जगत्तत्त्वमजिग्रहद्भवान् ॥१७॥ क्षुदादि दुःख प्रतिकारतःस्थिति, नचेन्द्रियार्थप्रभवाल्पसौख्यतः । ततो गुणो नास्ति च देहदेहिनोरितीदमित्थं भगवान् व्यजिज्ञपत् ॥१८॥ जनोऽतिलोलोऽप्यनुबन्धदोषतो भयादकार्येष्विह न प्रवर्तते । इहाप्यमुत्राप्यनुवन्धदोषवित्कथं सुखे संसजतीति चाब्रवीत् ॥१६॥ सचानुबन्धोऽस्य जनस्यताप, कृत्त षोऽभिवृद्धिःसुखतो न च स्थितिः। इति प्रभो लोकहितं यतोमतं, ततो भवानेव गतिः सतां मतः ॥२०॥
इत्यभिनन्दन जिन स्तोत्रम् ॥४॥ अन्वर्थसंज्ञः सुमति,निस्त्वं, स्वयंमतं येन सुयुक्ति नीतम् । यतश्च शेषेषु मतेषु नास्ति, सर्वक्रिया कारक तत्त्वसिद्धिः ॥२१॥ अनेममेकं च तदेव तत्त्वं भेदान्वयज्ञानमिदं हि सत्यम् । मषोपचारोऽन्यतरस्य लोपे, तच्छेषलोपोऽपि ततोऽनुपाख्यम् ।।२२।।
[६]