________________
अर्हद् भक्ति चितित फल देने के लिये चिन्तामणि है।
हितार्थपरिपंथिभिः प्रबलराग मोहादिभिः, कलंकितमना जनोयदभिवीक्ष्य शोशुध्यते । सदाभिमुखमेव यज्जगति पश्यतां सर्वतः, शरद्विमल चन्द्रमण्डल मिवोत्थितं दृश्यते ॥३४॥ तदेतदमरेश्वर प्रचलमौलि माला मणि, स्फुरत्किरण चुंबनीयचरणार विन्दद्वयम् । पुनातु भगवज्जिनेन्द्र तब रूपमन्धीकृतम्, जगत्सकल मन्यतीर्थ गुरुरूप दोषोदयः ॥३५॥
मानस्तम्भाः सरॉसि प्रविमलजलसत्खातिका पुष्पवाटी। प्राकारो नाट्यशाला द्वितयमुपवनं वेदिकांतर्ध्वजाद्याः ॥ शालःकल्प द्रमाणाँ सुपरिवृतवनं स्तूपहम्यविली च । प्राकारः स्फाटिकोन्त सुरमुनिसभा पीठिकाने स्वयंभूः ॥३६॥ वर्षेषु वर्षान्तर पर्वतेषु नंदीश्वरे यानि च मंदरेषु ।
यावन्ति चैत्यायतनानि लोकेसर्वाणि वंदे जिनपुंगवानाम् ॥३७॥ अवनित लगतानों कृत्रिमाऽकृत्रिमाणा, वनभवनगतानॉ दिव्यवैमानिकानां । इह मनुजकृताना, देवराजाचितानां जिनवर निलयानां भावतोऽहं स्मरामि ॥३॥
जम्बू धातकि पुकरार्द्ध वसुधा क्षेत्र त्रये ये भवाः । चंद्रांभोज शिखंडि कंठ कनक प्रावृड्धनाभा जिनाः ।। सम्यग्ज्ञान चरित्र लक्षणधरा दग्धाष्ट कर्मेन्धनाः । भूतानागत वर्तमान समये तेभ्यो जिनेभ्यो नमः ॥३६॥ श्रीमन्ममेरौ कूलाद्रौ रजतगिरिवरे शाल्मलौ जंबुवृक्षे। वक्षारे चैत्यवृक्षे रतिकर रुचके कुंडले मानुषांके । इष्वाकारेंजनाद्रौ दधिमुख शिखरे व्यंतरे स्वर्गलोके ।
ज्योतिर्लोकेऽभि वंदे भवन महितले यानि चैत्यानि तानि ॥४०॥ देवासुरेन्द्र नरनाग समचितेभ्यः, पापप्रणाशकर भव्य मनोहरेभ्यः । घंटाध्वजादिपरिवार विभूषितेभ्यो नित्यं नमो जगति सर्वजिनालयेभ्यः ।।४१॥
कायोत्सर्ग आलोचना। इच्छामि भंते ! चेइयभत्ति काउस्सग्गो कओ तस्सा लोचेउं । अहलोयतिरियलोयउढ्ढलोयम्मि किट्टिमाकिट्टिमाणि जाणि जिणचेइयाणि ताणि सव्वाणि तिसुवि लोएसु भवणवासियवाणवितरजोइसिय कप्पवासियत्ति चउविहादेवा सपरिवारा दिव्वेण गंधेण, दिव्वेण चुण्णेण, दिव्वेण वासेण, दिव्वेण ण्हाणेरण, णिच्चकालं अंति, पुज्जति वंदंति, णमंसंति । अहमवि इह संतो तत्थ संताई णिच्चकालं अंधेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुण संपत्ति होउ मज्झं। -इति चैत्य भक्ति समाप्सम् - [१४]