________________
मूल्यवान रत्न के समान मनुष्य जन्म अत्यन्त दुर्लभ है।
अथ समाधि भक्तिः । स्वात्माभि मुखसंवित्ति लक्षणं श्रुतचक्षुषा ।। पश्यन्पश्यामि देवत्वां केवलज्ञान चक्षुषा ॥१॥
शास्त्राभ्यासो जिनपतिनुतिः संगतिः सर्वदायैः । सवृत्तानां गुणगण कथा दोषवादे च मौनम् ।। सर्वस्यापि प्रियहितवचो भावना चात्मतत्वे ।
संपद्यतां मम भवभवे यावदेतेऽपवर्गः ॥२॥ जैन मार्गरुचिरन्यमार्ग निर्वगता जिनगुणस्तुतौ मतिः ।। निष्कलंकविमलोक्तिभावनाः संभवन्तु मम जन्मजन्मनि ॥ ३ ॥ गुरुमूले यतिनिचिते चैत्यसिद्धांत वाघिसद्घोषे । मम भवतु जन्मजन्मनि सन्यसन समन्वितं मरणम् ॥ ४ ॥
जन्मजन्म कृतं पापं जन्मकोटि समाजितम् ।
जन्ममृत्यु जरामूलं हन्यते जिनवंदनात् ॥ ५ ॥ आबाल्याज्जिनदेवदेव भवतः श्रीपादयोः सेवया । सेवासक्तविनय कल्पलतया कालोद्यया वद्गतः ।। त्वां तस्याः फलमर्थये तदधुना प्राण प्रयाण क्षणे । त्वन्नाम प्रतिबद्ध वर्णपठणे कण्ठोरत्व कुण्ठो मम ॥ ६ ॥
तव पादौ मम हृदये मम हृदयं तव पदद्वये लोनम् । तिष्ठतु जिनेन्द्र तावद्यावन्निर्वाण संप्राप्तिः ॥ ७ ॥ एकापि समर्थेयं जिनभक्तिर्दुर्गति निवारयितुम् ।
पुण्यानि च पूरयितुं दातुं मुक्तिश्रियं कृतिनः ॥ ८ ॥ पंच सु अ दीवणामे पंचम्मिय सायरे जिणे वंदे। पंच जसोयर णामे पंचम्मिय मंदरे वंदे ॥ ९॥ रयणत्तयं च वंदे, चवीस जिणे च सव्वदा वंदे । पंचगुरूणं वंदे चारणचरणं सदा वंदे ॥१०॥
अहमित्यक्षर ब्रह्म वाचकं परमेष्टिनः । सिद्धचक्रस्य सद्बीजं सर्वतः प्रणिदध्महे ॥
[१०]