________________
विनय शून्य का शास्त्राध्ययन निरर्थक है।
आत्मान - मात्मन्य विलोक्य मानस्त्वं,- दर्शन ज्ञान मयो विशद्धः । एकाग्रचित्तः खलु यत्र तत्र, - स्थितोपि साधुर्लभते समाधिम् ॥२५॥ एकः सदा शाश्वति को ममात्मा, - विनिर्मलः साधिगमस्वभावः । वहिर्भवाः सन्त्यपरे समस्ताः, - नशाश्वताः कर्मभवाः स्वकीयाः ॥२६॥ यस्यास्ति नैक्यं वपुषापि सार्द्ध, - तस्यास्ति किं पुत्र कलत्र मित्रः । पृथक्कृते चर्मणि रोमकूपाः, - कुतो हि तिष्टन्ति शरीर मध्ये ॥२७॥ संयोगतो दुःख मनेक - भेदं, - यतोऽश्रुते जन्म वने शरीरी। ततस्त्रि धासौ परिवर्ज नियो, - यियासुना निर्वृति मात्मनोनाम् ॥२८॥ सर्व निराकृत्य विकल्प जालं, - संसार कान्तार निपात हेतुम् । विविक्त मात्मान मवेक्ष्य मानो, - निलीय से त्वं परमात्म तत्त्वे ॥२६॥ स्वयं कृतं कर्म यदात्मना पुरा, - फलं तदीयं लभते शुभाशुभम् । परेण दत्तं यदि लभ्यते स्फुटं, - स्वयं कृतं कर्म निरर्थकं तदा ॥३०॥ निजाचितं कर्म विहाय देहिनो, - नकोपि कस्यापि ददाति किंचन । विचार यन्नेव मनन्य मानसः, - परोद दातीति विमुच्य शेमुषीम् ॥३१॥ यः परमात्माऽमित गति वन्धः, - सर्व विविक्तो भृशमनवद्यः । शश्व दधीते मनसि लभन्ते, - मुक्ति निकेतं विभव वरं ते ॥३२॥
इति द्वात्रिंशता वृत्तः, - परमात्मा न मीक्षते । योऽनन्य गत चेतस्को, - यात्यसौ पदमव्ययम् ॥३३॥
- इति सामायिक पाठ:--
[५६]