________________
पारिवारिक कलह प्राहस्थ्य सुलों को भस्म करती है।
यो दर्शन ज्ञान सुख स्वभावः, - समस्त संसार विकार बाह्यः । समाधिगम्यः परमात्म संज्ञः, - सदेव देवो हृदये ममस्ताम् ॥१३॥ निषूदते यो भव दुःख जालम्, - निरीक्षते यो जगदन्तरालम् । योऽन्तर्गतो योगि निरीक्षणीयः, - सदेव देवो हृदये ममस्ताम् ॥१४॥ विमुक्ति मार्ग प्रतिपादको यो, - यो जन्म मृत्यु व्यसनाद्वयतीतः । त्रिलोक लोको विकलोऽकलंकः, - सदेव देवो हृदये ममस्ताम् ॥१५॥ कोड़ी कृताशेष शरीरिवर्गाः, - रागादयो यस्य न सन्ति दोषाः । निरिन्द्रियो ज्ञान मयोऽनपायः - सदेव देवो हृदये ममस्ताम् ॥१६॥ यो व्यापको विश्व जनीन वृत्तः, - सिद्धो विबुद्धो धुत कर्म बन्धः । ध्यातो धुनीते सकलं विकार, - सदेव देवो हृदये ममस्ताम् ॥१७॥ न स्पृश्यते कर्म कलंक दोषः, - यो ध्वान्त संधैरिव तिग्मरश्मिः । निरंजनं नित्य मनेकमेकं, - तं देव माप्तं शरणं प्रपद्ये ॥१॥ विभासते यत्र मरीचि माली, - न विद्यमाने भुवनावभासी । स्वात्मस्थितं बोधमय प्रकाशम्, - तं देव माप्तं शरणं प्रपद्ये । १६॥ विलोक्य माने सति यत्र विश्वं, - विलोक्यते स्पष्टमिदं विविक्तम् । शुद्धं शिवं शान्त मनाद्यनन्तम्, - तं देव माप्तं शरणं प्रपद्ये ॥२०॥ ये नक्षता मन्मथमान मूर्छा, - विषाद निद्रा भय शोक चिन्ता। क्षयोऽनलेनेव तरू प्रपंच, - स्तं देव माप्तं शरणं प्रपद्ये ॥२१॥ म संस्तरोऽश्मान तृणं न मेदिनी, - विधानतो नोफल कोवि निर्मितम् । यतो निरस्ताक्ष कषाय विद्विषः, - सुधी भिरात्मैव सु निर्मलोमतः ॥२२॥ न संस्तरो भद्र समाधि साधनं, - न लोक पूजां नच संघ मेलनम् । य तस्तत्तोऽध्यात्मरतो भवानिशं, - विमुच्य समिपि बाह्य वासनाम् ॥२३॥ नसन्ति बाह्या मम केचनार्थाः, - भवामि तेषां न कदाच नाहम् । इत्थं विनिश्चित्य विमुच्य वारं, - स्वस्थः सदात्वं भव भद्रमुत्तयै ॥२४॥
[५५