________________
दयाद्र अन्तःकरण हुये विना प्राणियों के हृदय में अहिंसा की ज्योति नहीं जगती।
- श्री भूपाल कवि प्रणीता -
जिन चतुर्विशतिका 17 श्रीलीलायतनं महीकुलगृहं कीर्तिप्रमोदास्पदं । वाग्देवीरतिकेतनं जयरमाक्रीडानिधानं महत् ॥ सः स्यात्सर्व महोत्सवैक भवनं यः प्रार्थितार्थ प्रदं । प्रातः पश्यति कल्पपाद पद लच्छायं जिनांघ्रिद्वयं ॥१॥
शान्तं वपुः श्रवणहारि वचश्चरित्रं । सर्वोपकारि तव देव ततः श्रुतज्ञाः ॥ संसारमार व महास्थल रुद्र सान्द्र-।
च्छाया महील्ह भवन्त मुपा श्रयन्ते ॥२॥ स्वामिन्न्ध विनिर्गतोऽस्मि जननी गर्भान्ध कूपोदरा । वद्योद्घाटित दृष्टिरस्मि फलवज्जन्मास्मि चाद्यस्फुटम् ।। स्वामद्राक्षमहं यद क्षय पदानन्दाय लोकत्रयो । नेत्रेन्दीवर काननेन्दुम मृतस्यन्दि प्रभाचन्द्रिकम् ॥३॥
निःशेष त्रिदशेन्द्र शेखरशिखा रत्न प्रदीपावली । सान्द्रीभूत मृगेन्द्र विष्टरतटी माणिक्य दीपावलिः॥ क्वेयं श्रीक्वच निःस्पृहत्वमिद मित्यूहाति गस्त्वादृशः ।
सर्वज्ञान दृशश्चरित्र महिमा लोकेश लोकोत्तरः ॥४॥ राज्य शासन कारिनाकपति यत्त्यक्त तृणावज्ञया । हेलानिर्दलित त्रिलोकमहिमा यन्मोह मल्लोजितः ॥ लोकालोकपि स्ववोध मुकुर स्यान्तः कृतं यत्त्वया । सैषाऽश्चर्य परम्परा जिनवर क्वान्यत्र संभाव्यते ॥५॥
दानं ज्ञानधनाय दत्तम सकृत्पात्राय सवृत्तये । चीर्णान्युनतपांसि तेन सुचिरं पूजाश्च वह्वयः कृताः॥ शीलानां निचयः सहामल गुणैः सर्वः समासादितो। दृष्टस्त्वं जिन येन दृष्टि सुभगः श्रद्धापरेण क्षणम् ॥६॥
[४७]