________________
अहिंसात्मक जीवन वीरता का पोषक है तथा जीवनदाता है ।
प्रशस्तवाचश्चतुराः कषाय, दग्धस्य देवव्यवहारमाहुः । गतस्य दीपस्य हि नन्दितत्वं, दृष्टं कपालस्य च मंगलत्वम् ॥२८॥ नानार्थ मेकार्थ मदस्त्वदुक्त, हितं वचस्ते निशमय्य वक्त । निर्दोषतां के न विभावयन्ति, ज्वरेण मुक्तः सुगमः स्वरेण ॥२६॥ न क्वापि वाञ्छा ववृते चवाक्त, कालेक्वचित्कोऽपि तथानियोगः । नपूरयाम्यम्बुधि मित्युदंशुः, स्वयं हि शीता तिरभ्युदेति ॥३०॥ गुणागभीराः परमः प्रसन्ना, बहु प्रकारा बहवस्तवेति । दृष्टोऽयमन्तः स्तवने नतेषां, गुणो गुणानां किमतः परोऽस्ति ॥३१॥ स्तुत्या परं नाभिमतंहि भक्त्या, स्मृत्या प्रणत्या च ततो भजामि । स्मरामि देवं प्रणमामि नित्यं, केनाप्युपायेन फलंहि साध्यम् ॥३२॥ ततस्त्रिलोकी नगराधि देवं, नित्यं परं ज्योतिरनन्त शक्तिम् । अपुण्यपापं परपुण्यहेतु, नमाम्यहं वन्द्यम वन्दितारम् ॥३३॥ अशब्दम स्पर्शम रूप गन्धं, त्वां नीरसं तद्विषयाव बोधम् । सर्वम्य मातारममेय मन्य, जिनेन्द्र मस्मार्य मनुस्मरामि ॥३४॥ अगाधमन्यै मनसाऽप्य लंघय, निष्किचनं प्रार्थित मर्थ वद्भिः। विश्वस्य पारं तमदृष्ट पारं, पति जिनानां शरणं प्रजामि ॥३५॥ त्रैलोक्य दीक्षा गुरवे नमस्ते, यो वर्धमानोऽपि निजोन्नतोऽभूत । प्राग्गण्ड शैलः पुनरद्रि कल्पः, पश्चान्नमेरुः कुलपर्वतोऽभूत् ॥३६॥ स्वयं प्रकाशस्य दिवानिशा वा, न बाध्यता यस्य न बाधकत्वम् । नलाघवं गौरवमेक रूपं, वन्दे विभुं कालकलामतीतम् ॥३७॥ इति स्तुति देव विधाय दैन्या, द्वरं नयाचे त्वमुपेक्षकोऽसि । छायातरं संश्रयतः स्वतः, स्यात्कश्छायया याचितयात्मलाभः॥३८॥ अथास्ति दित्सा यदि वोपरोध, स्त्वय्येवसक्तांदिश भक्ति बुद्धिम् । करिष्यते देव तथा कृपामे, को वात्मपोष्ये सुमुखो न सूरिः ॥३६॥ वितरति विहिता यथाकथंचि, जिनविनताय मनीषितानिभक्तिः। त्वयि नुतिविषया पुनर्विशेषा, द्दिशतिसुखानि यशो धनंजयं च ॥४०॥
-- इति श्रीधनजय कृत विषापहारस्तोत्रम् सम्पूर्णम् -
[४६]