________________
अभक्ष भक्षण त्याग के विना अहिंसात्मक जीवन विकसित नहीं हो सकता।
तैलाय बालाः सिकतासमूह, निपीडयन्ति स्फुटमत्वदीयाः ॥१३॥ विषापहारं मणिमौषधानि, मन्त्रं समुद्दिश्य रसायनं च। भ्राम्यन्त्यहो नत्वमितिस्मरन्ति, पर्यायनामानि तवैव तानि ॥१४॥ चित्ते न किञ्चि कृतवानसि त्वं, देवः कृतश्चेतसि येन सर्वम् । हस्ते कृतं तेन जगद्विचित्रं, सुखेन जीवत्यपि चित्तवाह्यः ॥१५॥ त्रिकालतत्त्वं त्वमवैस्त्रिलोकी, स्वामीति संख्या नियतेरमोषाम् । बोधाधिपत्यं प्रति नाभविष्यं, स्तेऽन्येऽपि चेद् व्याप्स्यदभूनपोदम् ॥१६॥ नाकस्य पत्युः परिकर्म रम्यं, नागम्यरूपस्य तवोपकारि । तस्यैव हेतुः स्वसुखस्य भानो, रुद्विधतश्छत्र मिवादरेण ॥१७॥ क्वोपेक्षकस्त्वं क्व सुखोपदेशः, स चेत् किमिच्छा प्रतिकूलवादः । क्वासौ क्व वा सर्वजगत्प्रियत्वं, तन्नो यथा तथ्य मवेविजं ते ॥१८॥ तुंगात्फलं यत्तदकिञ्चनाच्च, प्राप्यं समृद्धान्न धनेश्वरादेः । निरम्भसोऽप्युच्चत मादिवाने, कापि निर्याति धुनी पयोधेः ॥१६॥ त्रैलोक्य सेवा नियमाय दण्डं, वधे यदिन्द्रो विनयेन तस्य । तत्प्रातिहार्य भवतः कुतस्त्यं, तत्कर्मयोगाद्यदि वा तवास्तु ॥२०॥ श्रिया परं पश्यति साधु निःस्वः, श्रीमान्न कश्चित्कृपणं त्वदन्यः । यथा प्रकाश स्थित मन्धकार, स्थायीक्षतेऽसौ न तथातमःस्थम् ॥२१॥ स्ववृद्धिनिः श्वास निमेषभाजि, प्रत्यक्ष मात्मानु भवेऽपि मूढः । कि चाखिलज्ञेय विवर्तिबोध, स्वरूप मध्य क्षमवैति लोकः ॥२२॥ तम्यात्म जस्तस्य पितेति देव, त्वां येऽवगायन्ति कुलं प्रकाश्य । तेऽद्यापि नन्वाश्मनमित्यवश्यं, पाणौ कृतं हेम पुनस्त्यजन्ति ॥२३॥ दत्तस्त्रिलोक्यां पटहोऽभिभूताः, सुरासुरास्तस्य महान्स लाभः । मोहस्य मोहस्त्वयि को विरोधु, मूलस्य नाशो बलवद्विरोधः ॥२४॥ मार्गस्त्वयैको ददृशे विमुक्त श्च, तुर्गतीनां गहनं परेण । सर्व मया दृष्टमिति स्मयेन, त्वं मा कदाचिद् भजमालुलोके ॥२५॥ स्वर्भानुरकस्य हविर्भुजोऽम्भः, कल्पान्त बातोम्बनिर्विघातः। संसारभोगस्य वियोगभावो, विपक्ष पूर्वाभ्युदयास्त्वदन्ये ॥२६॥ अजानतस्त्वां नमतः फलंयत्त, ज्जानतोऽन्यं न तु देवतेति । हरिमणि काचधिया दधानम्तं, तस्य बुद्धया वहतो न रिक्तः ॥२७॥
[४५]