________________
मोह रूपी व्याधि को दूर करने के लिये जिनेन्द्र वाणी ही परमौषधि है ।
' श्री धनंजय कवि प्रणीतं । GR विषापहार स्तोत्रं 40 स्वात्मस्थितः सर्वगतः समस्त, व्यापारवेदी विनिवृत्तसंगः । प्रवृद्धकालोप्यजरो वरेण्यः, पायादपायात्पुरुषः पुराणः ॥१॥ पररचित्यं युगभारमेकः, स्तोतुं वहन्योगिभिरप्यशक्यः । स्तुत्योऽद्यमेऽसौऽवृषभो नभानोः, किमप्रवेशे विशति प्रदीपः ॥ २ ॥ तत्याज शक्रः शकनाभिमानं, नाहं त्यजामि स्तवनानुबंध । स्वल्पेन बोधेन ततोधिकार्थ, वातायनेनेव निरूपयामि ॥३॥ त्वं विश्वदृश्वा सकलरदृश्यो, विद्वानशेषं निखिलरवेद्यः । वक्तंकियान्कीदृशमित्यशक्यः, स्तुतिस्ततो ऽशक्तिकथा तवास्तु ॥ ४ ॥ व्यापीडितं बाल मिवात्मदोष, रुल्लाघतां लोकमवापि पस्त्वं । हिताहितान्वेषण मांद्य भाज्यः, सर्वस्य जंतोरसि बालवैद्यः ॥ ५ ॥ दाता न हर्ता दिवसं विवस्वा, नद्यश्व इत्य च्युत दर्शिताशः । सब्याजमेवं गमयत्य शक्तः, क्षणेन दत्सेऽभिमतंनताय ॥ ६ ॥ उपति भक्त्या सुमुखः सुखानि, त्वयि स्वभावाद्विमुखश्च दुःखं । सदावदात घ तिरेक रूप, स्तयोस्त्वमादर्श इवाऽऽवभासि ॥ ७॥ अगाद्यताऽब्धेः सयतः पयोधि, मे रोश्च तुंगाप्रकृतिः स यत्र । धावा पृथिव्यो प्रथुता तथैव, व्यापत्वदीया भुवनांतराणि ॥ ८ ॥ तवानवस्था परमार्थतत्त्वं, तवया न गीतः पुनरागमश्च । - दृष्टं विहाय त्वमदृष्टमैषी, विरुद्धवृत्तोऽपि समंजसस्त्वं ॥६॥ स्मरःसुदग्धो भवतैव तस्मि, न्नुर्बुलितात्मा यदि नाम शंभु । अशेत वृन्दोपहतोपि विष्णुः, किं गृह्यते येन भवानजागः॥१०॥ स नीरजा स्यादपरोऽघवान्वा, तद्दोषकोत्यैव न ते गुणित्वं । स्वतोंबुराशेर्महिमा न देव, स्तोकापवादेन जलाशयस्य ॥११॥ कर्मस्थिति जंतुरनेकभूमि, नयत्यमं सा च परस्परस्य ।। त्वं नेतृभावं हि तयोर्भवाब्धौ, जिनेन्द्र नौनाविक योरिवाख्यः ॥१२॥ सुखाय दुःखानि गुणाय दोषा, धर्माय पापानि समाचरंति।
[४४]