________________
मानव जीवन में संयम का महत्व पूर्ण स्थान है।
प्रच्छन्नः खल्वयमघमयरंधकारैः समंता, त्पंथा मुक्तः स्थपुटितपदः क्लेशगतैरंगाधैः । तत्कस्तेन बाजति सुखतो देव तत्त्वावभासी, यद्यग्नेऽग्न न भवति भवद्भारतीरत्नदीपः ॥१४॥ आत्मज्योति निधिरनवधि ष्टुरानंद हेतुः, कर्मक्षोणीपटलपिहितो योऽनवाप्यः परेषां। हस्ते कुर्वन्त्यनतिचिरतस्तं भवद्भक्तिभाजः, स्तोत्रर्बध प्रकृतिपुरुषोद्दामधात्री खनित्रः ॥१५॥ प्रत्युत्पन्नानयहिमगिरेरायताचामृताब्धेर्या, देव त्वत्पदकमलयोः संगता भक्तिगंगा । चेतस्तस्यां मम रुचिवशादाप्लुतं शालितांहः, कल्माषं यद्भवति किमियं देव संदेहभूमिः ॥१६॥ प्रादुर्भूतस्थिरपदसुखं त्वामनुध्यायतो मे, त्वय्येवाहं स इति मतिरुत्पद्यते निर्विकल्पा। मिथ्यवेयं तदपि तनुते तृप्तिमभेषरूपां, दोषात्मानोप्यभिमतफलास्त्वत्प्रसादाद्भवति ।१७। मिथ्यावादं मलमपनुदन्सप्तभंगीतरंगे, वगिंभोधिर्भुवनमखिलं देव पर्येति यस्ते । तस्यावृत्ति सपदि बिबुधाश्चेतसैवाचलेन, व्यातन्वंतः सुचिरममृतसेवया तृप्नुवति ।१८। आहार्येभ्यः स्पृहयति परं यःस्वभावादहृद्यः,शस्त्रनाही भवति सततं वैरिणायश्च शक्यः। सर्वागेषु त्वमसि सुभगस्त्वं न शक्यः परेषां,तरिक भूषावसनकुसुमैः किं च शस्त्ररुदस्त्र ।१६॥ इन्द्रः सेवांतव सुकुरुतां किं तया श्लाघनं ते,तस्यैवेयंभवलयकरी श्लाघ्यतामातनोति । त्वंनिस्तारीजननजलधेःसिद्धिकांतापतिस्त्वं, त्वंलोकानांप्रभुरितितवश्लाघ्यतेस्तोत्रमित्थं ॥२०॥ वृत्तिर्वाचामपरसदृशी न त्वमन्येन तुल्य, स्तुत्यद्गाराः कथमिव ततस्त्वय्यमीनःमते । मैवं भूवंस्तदपि भगवन्भक्तिपीयूषपुष्टा, स्ते भव्यानामभिमतफलाःपारिजाता भवंति ।२१। कोपावेशो न तब न तव क्वापि देव प्रसादो, व्याप्तंचेतस्तव हि परमोपेक्षयवानपेक्षं। आज्ञावश्यं तदपि भुवनं सन्निधिरहारी, क्वैवंभूतं भुवनतिलक ! प्राभवं त्वत्परेषु ।२२० देव स्तोतुं त्रिदिवगणिकामंडलीगीतकीति,तोतूति त्वां सकलविषयज्ञानमूर्ति जनोयः । तस्यः क्षेमं न पदमटतो जातु जोहूति पंथा,स्तत्त्वग्रंथस्मरणविषये नैष मोमूर्ति मयः ॥२३॥ चित्ते कुर्वन्निरवधिसुखज्ञानदृग्वीर्यरूपं, देव त्वां यः समयनियमादादरेण स्तवीति । श्रेयोमार्ग सखलुसुकृतीतावता, पूरयित्वा कल्याणानांभवति विषयःपंचधा पंचिताना ॥२४॥ भक्तिप्रहमहेंद्रपूजितपदत्वत्कीर्तने न क्षमाःसूक्ष्मज्ञानदृशोऽपिसंयमभृतःके हन्तमंदा वयं । अस्माभिः स्तवनच्छलेन तु परस्त्वय्यादरस्तन्यते, स्वात्माधीनसुखैषिणां स खलु नः
कल्याणकल्पद्र मः ॥२५॥ वाविराज मनु शाब्दिकलोको वादिराजमनु तार्किकसिंहः । मादिराजमनु काव्यकृतस्ते वादिराजमनु भव्य सहायः ॥२६॥ -इति श्री वादिराज कृतमेकीभाव स्तोत्रम्
[४]